________________
स्थाहादसनरौ। कोऽयं किं च स्याहादवादिनी नास्ति क्वचिदस्यन्तम्च्छेदो ट्रव्यरूपतया स्थास्नूनामेव सतां भावानामुत्पादव्यययुक्ततादिति विरुद्धश्च ति नाधिकृतानुमाना हुध्यादिगणोच्छेदरूपासिद्धिः सिध्यति नापि "न हि वै सशरीरस्ये" त्यादेरागमात् स हि शुभाशुभादृष्टपरिपाकजन्ये सांसारिकप्रियाप्रिये परस्परानुषक्ते अपेक्ष्य व्यवस्थितः मुक्तिदशायां तु सकलादृष्टक्षयहेतुकमैकान्तिकमात्यन्तिकं च केवलं प्रियमेव तत्कथं प्रतिषिध्यते आगमस्य चायमर्थः सशरीरस्य गतिचतुष्टयान्यतमस्थानवर्तिनः आत्मनः प्रियाप्रिययोः परस्परानुषतयो: सुखदुःखयोरपहतिरभावो नास्तीति अवश्यं हि तत्र मुखदुःखाभ्यां भाव्यं परस्परानुषक्तत्वं च समासकरणादभ्यूह्यते अशरीरं मुक्तात्मानं वाशब्दस्यैवकारार्थत्वादशरीरमेव सन्तं सिद्धिक्षेत्रमध्यासीनं प्रियाप्रिये परस्परानुषते सुखदुःख न स्पृशत इदमत्र हृदयं यथा किल संसारिण: सुखदुःखे परस्परानुषत स्यातां न तथा मुक्तात्मनः किं तु केवलं सुखमेव दः खमूलस्य शरीरस्यैवाभावात् सुखं त्वात्मस्वरूपत्वादवस्थितमेव स्वस्वरूपावस्थानं हि मोक्षः अत एवाशरीरमित्युक्तं पागमार्थश्चायमित्यमेव समर्थनीयो यत एतदर्थानुपातिन्येव स्मृतिरपि दृश्यते ।
सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयादुष्प्रापमकृतात्मभिः ॥ न चायं मुखशब्दो दुःखाभावभाले बर्तते मुख्य