________________
स्याहादमञ्जरौ। दम्बया वाणोऽपि बभाण "अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखमुपदेशगुणाः गुरुवचनममलमतिमलिलमिव महदुपजनयति श्रवण स्थितं शुलमभव्यस्ये" ति अतो वस्तुरत्या न तेषां भावाननुशासक इति न चैतावता जगद्गुरो रसामर्थ्यसम्भावना न हि कालदष्टमनुज्जौवयन् समुजजीरितेतरदष्टको विषभिषगुपालम्भनीयोऽतिप्रसङ्गात् स हि तेषामेव दोषो न खलु निखिलभुवनाभोगमबभासयन्तोऽपि भानवीया भानव: कौशिकलोकस्यालोकहेतुतामभजभाना उपालम्भसम्भावनास्पदं तथा च श्रीसिद्धसेनः ॥
सद्धर्मबीजवपनानघकौशलम्य यल्लोकवान्धव तवा पि खिलान्यभूवन् ॥ तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्याशवो मधुकरौचरणावदाताः ॥ १ ॥
अथ कथमिव तत्कुहेवाकानां विडम्बनारूपत्वमिति ब्रूमः यत्तावदुक्तं परैः क्षित्पादयो बुद्धिमत्कर्तकाः कार्यत्वाइटवदिति तदयुक्तं व्याप्ठेरग्रहणात् साधनं हि सर्वत्र व्याप्ती प्रमाणेन सिद्धायां साध्यं गमयेदिति सर्ववादिसंवादः स चायं जगन्ति हजन् सशरीरो ऽशरीरो वा स्यात् सशरीरोऽपि किमस्मदादिवत् दृश्यशरीरविशिष्ट उत पिशाचादिवदहश्यशरीरविशिष्टः प्रथमपचे प्रत्यक्षबाध स्तमन्तरेणापि च जायमाने टणतरुपुरंदरधनुरभादौ कार्यत्वस्य दर्शना प्रमेयत्त्वादिवसाधारणानेकान्तिको हेतुः हि