________________
स्याहादमञ्जरौ।
२५ परोत्पाद्यतया कृतकत्त्वप्राप्तिः अपेक्षितपरव्यापारी हि भावः स्वभावनिष्पत्तौ रुतक इत्युच्यते यश्चापर स्तत्कर्ता कल्प्यते स नित्यो ऽनित्यो वा स्या नित्यश्चेदधिकृतेश्वरेण किमपराधम् अनित्यश्चेत्तस्याप्युत्योदकान्तरेण भाव्यं तस्यापि नित्यानित्यत्वकल्पनायाम् अनवस्थादौस्थमिति तदेवमेकत्वादिविशेषणविशिष्टो भगवानीश्वरस्त्रिजगत्कत्तेति पराभ्युपगममुपदोत्तराङ्घन तस्य दुष्टत्वमाचष्टे इमा एता अनन्तरोताः कुहेवाकविडम्बनाः कुत्सिता हेबाका आग्रहविशेषाः कुहेवाका: कदाग्रहा इत्यर्थ स्त एव विडम्बना: विचारचातुरोवाह्यत्वेन तिरस्काररूपत्त्वादिक्षेपप्रकाराः स्यु भवेयुस्तेषां प्रामाणिकापसदानां येषां हे स्वामिन् त्वं नानुशासको न शिक्षादाता तदभिनिवेशानां विडम्बनारूपत्वज्ञापनार्थमेव पराभिप्रेतपुरुषविशेषणेषु प्रत्येक तच्छब्दप्रयोगमसूयागर्भमाविर्भावयांचकार स्तुतिकारः तथाचैवमेव निन्दनीयं प्रति वक्तारो वदन्ति स मूर्खः स पापीयान् स दरिद्र इत्यादि त्वमित्येकवचनसंयुक्तयुष्मच्छब्दप्रयोगेण परमेशितुः परमकारणिकतया ऽनपेक्षितस्वपरपक्षविभागमदितीयं हितो पदेशकत्त्वं ध्वन्यते अतोऽत्रायमाशयो यद्यपि भगवानविशेषेण सकलजगज्जन्तुजातहितावहां सर्वेभ्य एव देशनावाचमाचष्टे तथापि सैव केषांचित् निचितपापकर्मकलुषितात्मनां रुचिरूपतया न परिणमते अपुनर्बन्धकारिव्यतिरिक्त वनायोग्यत्वा त्तथा च का