________________
स्वाद्दादमञ्जरी ।
योज्य तदेवाधिकृतमेवेकं वस्तु स्यात्कथं चिन्नाशिनशनशीलमनित्यमित्यर्थः स्यान्नित्यमविनाशधमत्यर्थः एतावता नित्यानित्यलक्षणमेकं विधानं तथा स्यात्सदृशम् अनुवृत्तिहेतुसामान्यरूपं स्यादिरूपं विविधरूपं विसदृश परिणामात्मकं व्यादृत्तिहेतुविशेषरूपमित्यर्थः अनेन सामान्यविशेषरूपो द्वितीयः प्रकारः तथा स्वाहाच्यं वक्तव्यं स्यान्न वाच्यमवक्तव्यमित्यर्थः अत्र च समासेऽवाच्यमिति युक्तं तथाप्यवाच्यपदं योन्यादौ रूढमित्य सभ्यतापरिहार्थं न वाच्यमित्यसमस्तं चकार स्तुतिकारः एतेन अभिलाप्यानभिलाप्यस्वरूपतृतीयो भेदः तथा स्वात्सद् विद्यमानं अस्तिरूपमि - त्यर्थः स्यादसत्तद्दिलक्षणमित्यनेन सदाख्या चतुर्थी विधा हे विपश्चितां नाथ संख्यावतां मुख्य इयमनन्तरोक्त निपततत्त्वसुधोगतोद्वारपरम्परा तवेति प्रकरणात्सामर्थ्याद्दा गम्यते तवं यथावस्थित वस्तुस्वरूपपरिच्छेदस्तदेव जरामरणापहारित्वाद्विबुधोपभोग्यत्वान्मिथ्यात्यविषोर्मिनिराकरिष्णुत्वादान्तराह्लादकारित्वाच्च पोपूषं तत्त्वसुधा नितरामनन्यतया पोता खादिता या तत्त्वसुधा तसा उद्गता प्रादुर्भता तत्कारणिका या उद्गारपरम्परा उद्गार थेगिरिवेत्यर्थ: यथा हि कश्चिदाकणं पीयूषरसमापीय तदनुविधायिनौ मुद्गारपरम्परां मुञ्चति तथा भगवानपि जरामरणापहारितत्त्वामृतं स्वैरमाखादा तद्रसानुविधायिनों प्रस्तुताने कान्तवादभेदचतुष्टयौलक्षणा
१८७