________________
स्याद्दादमञ्जरौ ।
अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुरङ्गसंचासनसिंहनादाः ॥ २१ ॥
तवं परमार्थभूतं वस्तु जौवाजौवलक्षणम् अनन्तधर्मात्मकमेव अनन्तास्त्रिकालविषयत्वादपरिमि ता ये धर्माः सहभाविनः क्रमभाविनश्च पर्यायास्त एवात्मा स्वरूपं यस्य तदनन्तधर्मात्मकम् एवकार: प्रकारान्तरव्यवच्छेदार्थः श्रत एवाह अतोऽन्यथेत्यादि अतोऽन्यथा उक्तप्रकारवैपरीत्येन सत्वं वस्तुत्वमसूपपादं सुखेनोपपाद्यते घटनाकोटिसंटङ्कमारोप्यते इति सूपपादं न तथा सूपपादं दुर्घटमित्यर्थः अनेन साधनं दर्शितं तथा हि तत्त्वमिति धर्मि अनन्तधर्मात्मकं साध्यो धर्मः सत्त्वान्यथानुपपत्तेरिति हेतुरन्यथानुपपत्त्येकलक्षणत्वादेतो: अन्तर्व्याप्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभि र्न प्रयोजनं यदनन्तधर्मात्मकं न भवति तत्सदपि न भवति यथा वियदिन्दीवर मिति केवलव्यतिरेकी हेतुः साधर्म्यदृष्टान्तानां पचकुचिनिचिप्तत्वेनान्वयायोगात् अनन्तधर्मात्मकचं चा त्मनि तावत्माकारानाकारोपयोगिता कर्तृत्वं भोक्तृत्वं प्रदेशाष्टकनिश्चलता अमृतत्त्वमसंख्यात प्रदेशात्मकता जीवत्वमित्यादयः सहभाविनो धर्माः हर्ष
२२
१६८