________________
स्याद्वादमञ्जरी ।
अथोत्पादादयोऽभिन्नाः कथमेकं व्यात्मकम् ॥ इति चेत्तदयुक्तां कथं चिह्निन्नलक्षणत्वेन तेषां कथं चिह्नेहाभ्युपगमात् तथा ह्युत्पादविनाशधौव्याणि स्वामिन्नानि भिन्नलक्षणत्वाद्रूप दिवदिति न च भिन्नलक्षणत्वमसिद्धमसत आत्मलाभः सतः सत्तावियोगो द्रव्यरूपतयानुवर्त्तनं च खलुत्पादादौनां परस्परमसंकीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः खपुष्यवदसत्त्वापत्तेः तथा युत्पादः केवलो नास्ति स्थितित्रिगमरहितत्त्वात् कूर्मरोभवत् तथा विनाशः केवलो नास्ति स्थित्युत्पत्तिरहितत्वात् तद्दत् एवं स्थितिः केवला नास्ति विनाशोत्पादशून्यत्वात्तद्ददे वेत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यं तथा चोक्तम् ।
१६८
घटमौलि सुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोब्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । श्रागोरसवतो नोभे तस्माद्दस्तु व्यात्मकम् ॥
इति काव्यार्थः ॥ २१ ॥
अथान्ययोगव्यवच्छेदमा प्रस्तुत्त्वात् आस्तां तावात्माचाद्भवान् भवदीयप्रवचनावयवा अपि परती तिरस्कारबड़कक्षा इत्याशयवान् स्तुतिकार: सपादादव्यवस्थापनाय प्रयोगमुपन्यसान् स्तुतिमाह ।