________________
१२६
स्थाहादमञ्जरी। प्रमाणकार्यस्य न भावः सत्ता निर्मूलत्त्वात् विद्यमाने हि फलहेतावस्येदं फलमिति पतीयते नान्यथाऽतिपसङ्गात् किं च हेतुफलभावः संबन्धः स च विष्ठ एव स्यात् न चानयोः क्षणक्षयैकदीक्षितो भवान् मंबन्धं क्षमते ततः कथमयं हेतुरिदं फल मिति पतिनियता प्रतीतिरेकस्य ग्रहणेऽप्यन्यस्याग्रहणे तदसम्भवात्
हिष्टसंबन्धसंवित्तिर्ने करूपपुवेदनात् ॥ दयोः स्वरूपग्रहणे मति संबन्धवेदनम् ॥ इति
वचनात् यदपि धर्मोत्तरेणऽर्थसारूप्यमस्य पमाणं तद्दशादर्थपतीतिसिद्धेरिति न्यायबिन्दुसूत्र विगवता भणितं नीलनिर्भासं हि विज्ञानं यतस्तम्मानौलस्य प्रतीतिरवसौयते येभ्यो हि चक्षुरादिभ्यो क्षानमुत्पदाते न तहशात्तज्ज्ञानं नौलस्य संवेदनं शक्यतेऽवस्थापयितुं नीलसदृशं त्वनुभूयमानं नोलस्य संवेदनमवस्थाप्यते न चावजन्यजनकभावनिबन्धनः साध्यसाधनभावो येनै कस्मिन्यस्तुनि विरोधः स्यात् अपि तु व्यवस्थाप्यव्यवस्थापकभावेन तत एकस्य वस्तुनः किंचिद्रूपं पमाणं किंचित्प्रमाणफलं न विसध्यते व्यवस्थापन हेतु हि सारूप्यं तस्य ज्ञानस्य व्यवस्थाप्यं च नौलसंवेदनरूपमित्यादि तदप्यसारम् एकस्प निरंशस्य ज्ञानलक्षणस्य व्यवस्थाप्यव्यवस्थापकत्वलक्षणस्वभावद्वयायोगात् व्यवस्थाप्यव्यवस्थापकभावस्यापि च सम्बन्धत्वेन वित्तित्त्वादेककि