________________
स्याबादमञ्जरी। १२५ न संविदहेतपथेऽर्थसंविदिलूनशीणं सुगतेन्द्रजालम् ॥१६॥
बौद्धाः किल प्रमाणतत्फलमेकान्तेनाभिन्नं मन्यन्ते तथा च तत्सिद्धान्त उभयत्र तदेवज्ञानं प्रमाणं फलम् अधिगमरूपत्वात् उभयवेति प्रत्यक्षे ऽनुमाने च तदेवज्ञानं प्रत्यक्षानुमानलक्षणं फलं कार्य कुतोऽधिगमरूपत्वात् इति परिच्छेदरूपत्वात् तथा हि परिच्छेदरूपमेव ज्ञानमुत्पद्यते न च परिच्छेदाढते ऽन्यज् जानफलं भिन्नाधिकरणत्वादिति सर्वथा न प्रत्यक्षानुमानाभ्यां भिन्नं फलमस्तीति एतच्च न समौचौनं यतो यद्यस्मादेकान्तेनाभिन्नं तत्तेन सहैवोत्यद्यते यथा घटेन घटत्वं तैश्च प्रमाणफलयोः कार्यकारणभावो ऽभ्युपगम्यते प्रमाणं कारणं फलं कार्यमिति स चैकान्ताभेदे न घटते न हि युगपदुत्पद्यमानयोस्तयोः सव्येतरगोविषयाणयोरिव कार्यकारणभावो युक्तः नियतप्राकालभावित्वात्कारणस्य नियतोत्तरकालभावित्त्वात्कार्यस्य एतदेवाह न तुल्यकालः फलहेतुभाव इति फलं कार्य हेतुः कारणं तयोर्भाव:: स्वरूपं कार्यकारणभावः स तुल्यकाल: समानकालो न युज्यत इत्यर्थः अथ क्षणान्तरितत्वात्तयोः क्रमभावित्वं भविष्यतीत्याशङ्याह हेतौ विलीने न फलस्य भाव इति हेतौ कारणे पमाणलक्षणे विलौने क्षणिकत्वादुत्पत्त्यनन्तरमेव निरन्वयं विनष्टे फलस्य