________________
११६
स्वादादमञ्जरी ।
aataar इति द्वितीया अम्बरादि व्योमप्रभृति भूतपञ्चकं शब्दादितन्मावजं शब्दादीनि पञ्चतन्मावाणि सूक्ष्मसंज्ञानि तेभ्यो जातमुत्पन्नं शद्दादितन्मावनम् इति तृतीया श्रत्र चशडो गम्यः पुरुषस्य च प्रकृति विकृत्यनात्मकस्यात्मनो न बन्धमोचौ किं तु प्रकृतैरेव तथा च कापिलाः ।
तस्मान्न बध्यतेऽद्दा न नापि नापि संसरति कचित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥
तत्र बन्धः प्राकृतिकादि र्मोक्षः पञ्चविंशतित त्वज्ञानपूर्वकोऽपवर्गइति चतुर्थी इति शब्दस्य प्रकारार्थत्वादेवं प्रकारम् अन्यदपि विरोधीति विरुद्ध पूपरविरोधादिदोषाघातं जडै मखैस्तत्त्वावबोधविधुरधीभि: कापिलैः कियन्न ग्रथितं कियन्न स्वशास्त्रेषूपनिबद्ध कियदित्यसूयागर्भं तत्प्ररूपितविरुद्धार्थानामानन्त्यं नेयत्ताऽनवधारणात् इति संक्षेपार्थः व्यासार्थस्त्वयं सांख्यमते किल दुःखत्रयाभिहतस्य पुरु षस्य तदपघातहेतुतत्वजिज्ञासा उत्पद्यते आध्यात्मि कमाधिदैविकमाधिभौतिकं चेति दुःखवयं तत्राध्यात्मिकं द्विविधं शारीरं मानसं च शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तं मानसं कामक्रोधलोभमोहेर्ष्याविषयादर्शननिबन्धनं सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखं बाह्योपायसाध्यं दुःखं देवा श्रधिभौतिकमाधिदैविकं चेति तत्त्राधिभौति