SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ समयसारः। कृतं । इदानीं पुनरज्ञानमयगुणज्ञानमयगुणयोः मुख्यत्वेन व्याख्यानं क्रियते । नच जीवाजीवगुणमुख्यत्वेनेति । किमर्थमिति चेत् ? तेषामेव पुण्यपापादिसप्तपदार्थानां संक्षेपसूचनार्थमिति । तत्र जो संगं तु मुइत्ता इत्यादिगाथामादिं कृत्वा पाठक्रमेण गाथानवकपर्यंतं व्याख्यानं करोति । तत्रादौ गाथात्रयं ज्ञानभावमुख्यत्वेन तदनंतरं गाथाषटुं ज्ञानिजीवस्य ज्ञानमयो भावो भवत्यज्ञानिजीवस्याज्ञानमयो भावो भवतीति मुख्यत्वेन कथ्यत इति षष्ठांतराधिकारे समुदायपातनिका । तद्यथा-कथंचित्परिणामित्वे सिद्धे सति ज्ञानी जीवो ज्ञानमयस्य भावस्य कर्ता भवतीत्यभिप्रायं मनसि संप्रधाउँदं सूत्रत्रयं प्रतिपादयति; जो संगं तु मुइत्ता जाणदि उवओगमप्पगं सुद्धं । तं णिस्संगं साहुं परमट्टवियाणया विंति ॥ ___ यः संग तु मुक्त्वा जानाति उपयोगमयकं शुद्धं । तं निस्संगं साधुं परमार्थविज्ञायका विदंति ॥ जो संगं तु मुइत्ता जाणदि उवओग मप्पगं सुद्धं यः परमसाधुर्बाह्याभ्यंतरपरिग्रहं मुक्त्वा वीतरागचारित्राविनाभूतभेदज्ञानेन जानात्यनुभवति । कं कर्मतापनं आत्मानं । कथंभूतं । विशुद्धज्ञानदर्शनोपयोगस्वभावत्वादुपयोगस्तमुपयोगं ज्ञानदर्शनोपयोगलक्षणं । पुनरपि कथंभूतं । शुद्धं भावकर्मद्रव्यकर्मनोकर्मरहितं । तं णिस्संगं साहुं परमवियाणया वितितं साधु निस्संग संगरहितं विदंति जानंति ब्रुवंति कथयति वा । के ते, परमार्थविज्ञायका गणधरदेवादय इति । जो मोहं तु मुइत्ता णाणसहावाधियं मुणदि आदं । तं जिद्मोहं साहुं परमवियाणया विंति ॥ यः मोहं तु मुक्त्वा ज्ञानस्वभावाधिकं मनुते आत्मानं । तं जितमोहं साधु परमार्थविज्ञायका विदंति ॥ जो मोहं तु मुइत्ता णाणसहावाधियं मुणदि आदं यः परमसाधुः कर्ता समस्तचेतनाचेतनशुभाशुभपरद्रव्येषु मोहं मुक्त्वात्मशुभाशुभमनोवचनकायव्यापाररूपयोगत्रयपरिहारपरिणताभेदरत्नत्रयलक्षणेन भेदज्ञानेन मनुते जानाति । कं कर्मतापन्नं, आत्मानं । किं विशिष्टं ? निर्विकारस्वसंवेदनज्ञानेनाधिकं परिणतं परिपूर्ण । तं जिदमोहं साहुं परमहवियाणया विंति तं साधुं कर्मतापन्नं जितमोहं निर्मोहं विदंति जानंति । के ते? परमार्थविज्ञायकास्तीर्थकरपरमदेवादय इति । एवं मोहपदपरिवर्तनेन रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायबुद्ध्युदयशुभाशुभपरिणामश्रोत्रचक्षुर्घाणजिह्वास्पर्शनसंज्ञानि विंशतिसूत्राणि व्याख्येयानि । तेनैव प्रकारेण निर्मलपरमचिज्ज्योतिःपरिणतेर्विलक्षणा असंख्येयलोकमात्रविभावपरिणामा ज्ञातव्याः । अथजीव भी परिणामी है सो आप जिस भावरूप परिणमता है उसी भावका कर्ता होता है ॥ १२११.१२२।१२३३१२४।१२५ ॥
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy