________________
१८६
रायचन्द्रजैनशास्त्रमालायाम् । "स्थितेति जीवस्य निरंतराया स्वभावभूता परिणामशक्तिः । तस्यां स्थितायां स करोति पादिसप्तपदार्थजीवपुद्गलसंयोगपरिणामनिवृत्तास्ते च जीवपुद्गलयोः कथंचित्परिणामित्वे सति घटते । तस्यैव कथंचित्परिणामित्वस्य विशेषव्याख्यानमिदं । अथवा 'सामाण्णपच्चया खलु चउरो' इत्यादि गाथासप्तके यदुक्तं पूर्व सामान्यप्रत्यया एव शुद्धनिश्चयेन कर्म कुर्वतीति न जीव इति जैनमतं । एकांतेनाकर्तृत्वे सति सांख्यानां संसाराभावदूषणं तस्यैव संसाराभावदूषणस्य विशेषदूषणमिदं । कथमिति चेत् । तत्रैकांतेन कर्तृत्वाभावे सति संसाराभावदूषणं अत्र पुनरेकांतेन परिणामित्वाभावे सति संसाराभावदूषणं । यतः कारणाद्भावकर्मपरिणामित्वमेव कर्तृत्वं च भण्यते ॥ १२१११२२।१२३।१२४।१२५ ॥ इति जीवपरिणामित्वे व्याख्यानमुख्यत्वेन गाथापंचकं गतं । एवं पुण्यपापादिसप्तपदार्थानां पीठिकारूपे महाधिकारे जीवपुद्गलपरिणामित्वव्याख्यानमुख्यत्वेनाष्टगाथाभिः पंचमांतराधिकारः समाप्तः । अथ-जाव ण वेदि विसेसंतरं तु आदासवाण दोण्हपि । अण्णाणी तावदु इत्यादि गाथाद्वये तावदज्ञानी जीवस्वरूपं पूर्व भणितं स चाज्ञानी जीवो यदा विसयकसाययुगाढ इत्याद्यशुभोपयोगेन परिणमति तदा पापास्रवबंधपदार्थानां त्रयाणां कर्ता भवति । तदा तु मिथ्यात्वकषायाणां मंदोदये सति भोगाकांक्षारूपनिदानबंधादिरूपेण दानपूजादिनिदानं परिणमति तदा पुण्यपदा
र्थस्यापि कर्ता भवतीति पूर्व संक्षेपेण सूचितं जइया इमेण जीवेण आदा सवाण दोहंपि । णादं होदि विसेसंतरं तु इत्यादिगाथाचतुष्टये ज्ञानी जीवस्वरूपं च संक्षेपेण सूचितं स च ज्ञानी जीवः शुद्धोपयोगभावपरिणतोऽभेदरत्नत्रयलक्षणेनाभेदज्ञानेन यदा परिणमति तदा निश्चयचारित्राविनाभाविवीतरागसम्यग्दृष्टिभूत्वा संवरनिर्जरामोक्षपदार्थानां त्रयाणां कर्ता भवतीत्यपि संक्षेपेण निरूपितं पूर्व । निश्चयसम्यक्त्वस्याभावे यदा तु सरागसम्यक्त्वेन परिणमति तदा शुद्धात्मानमुपादेयं कृत्वा परंपरया निर्वाणकारणस्य तीर्थकरप्रकृत्यादिपुण्यपदार्थस्यापि कर्ता भवतीत्यपि पूर्वं निरूपितं तत्सर्व जीवपुद्गलयोः कथंचित्परिणामित्वे सति भवतीति तत्कथंचित्परिणामित्वमपि पुण्यपापादिसप्तपदार्थानां संक्षेपसूचनार्थं पूर्वमेव संक्षेपेण निरूपितं । पुनश्च जीवपुद्गलपरिणामित्वव्याख्यानकाले विशेषेण कथितं । तत्रैवं कथंचित्परिणामित्वे सिद्धे सति अज्ञानिज्ञानिजीवयोः गुणिनोः पुण्यपादिसप्तपदार्थानां संक्षेपसूचनार्थ संक्षेपव्याख्यानं रूप परिणत हुआ गरुड ही है उसी तरह यह जीवात्मा अज्ञान स्वभाव क्रोधादिरूपपरिणत हुए उपयोगरूप हुआ आप स्वयमेव क्रोधादिक ही होता है । इसतरह जीवका परिणमन स्वभाव होना सिद्ध हुआ ॥ भावार्थ-जीव परिणामस्वभाव है । जब अपना उपयोग क्रोधादिरूप परिणमता है तब आप क्रोधादिरूप ही होता है ऐसा जानना । अब इस अर्थका कलशरूप काव्य कहते हैं-स्थितेति इत्यादि । अर्थ-जीवके अपने स्वभावसे ही हुई ऐसी परिणमन शक्ति पूर्वकथित रीतिसे निर्विघ्न सिद्ध हुई । उसके सिद्ध होनेसे यह जीव जिस भावको अपने करता है उसीका वह कर्ता होता है । भावार्थ