________________
३२
नाम क्रियते स नामघटः । घट इति नामापि नामघटः । यत्किमपि वस्तु घटाकारं घटाकाररहितं वाऽयं घट इत्येवं स्थाप्यते स स्थापनाघटः । यद् मृद्द्रव्यं घटरूपेण परिणंस्यति, अनुभूतघटपरिणामं वा तन्मृद्द्रव्यं घटकारणत्वा घटोऽयमित्येवं निक्षिप्यमाणं द्रव्यघटः । यस्य वस्तुनो यदसाधारणस्वरूपं तत्तस्य भाव इति । पृथुबुध्नोदराद्याकारः कम्बुग्रीवादिमान् पदार्थों घटोयमित्येवं सङ्केतितो भावघट इति भावनिक्षेपः ।
नामनिक्षेपाभ्युपगन्तृनैगमनयविशेषमते शब्दार्थयोस्तादात्म्यमेव सम्बन्ध इत्यर्थस्य नामरूपतेति ।
“अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति वचनप्रामाण्यादेकशब्दवाच्यत्वेन शब्दार्थयोस्तादात्म्यमिति घटइति नामापि घट एव, तुल्यपरिणामत्वेन घटरूपार्थेन समं घटपरिणामसमपरिणामस्य वस्तुनोऽभेदेन घटाकारोऽपि घट एव मुख्यार्थस्याभावादेव तत्र तत्प्रतिकृतित्वम् । परिणामपरिणामिभावसम्बन्धस्यात्यन्तभेदेऽनुपपत्त्या मृत्पिण्डादिद्रव्यघटोsपि घट एव । पृथुबुध्नोदराद्याकारस्य कम्बुग्रीवादिमतो भावघटस्य घटत्वं सर्वानुमतमेवेत्येवं चत्वारो निक्षेपा नयसंमताः । यदाहुरनुयोगद्वारसूत्रकाराः जत्थ य जं जाणिजा, निक्खेवं निक्खिवे निरवसेसं । जत्थ वि य न जाणिजा, चक्कयं णिक्खिवे तत्थ" इति वचन