________________
प्रायविशेषः स प्रमाणज्ञानस्वरूपः । यः प्राधान्येनैकधर्मप्रतिपादकाभिप्रायविशेषः स नयज्ञानस्वरूपः । अत्र तु वचनस्वरूपागमप्रमाणं विचार्यते । तदाहुर्देवमूरयो "नीयते येन श्रुनाख्यप्रमाणविषयोकृतस्यार्थस्यांशः तदितरांशौदासीन्यतः स प्रतिपत्तरभिप्रायविशेषो नयः । स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः।" उल्लेखस्तु नयस्य सदिति, दुर्नयस्य सदेवेति । तदाहुः कलिकालसर्वज्ञश्रीहेमचन्द्रसूरयोऽपि "सदेव सत् स्यात् सदिति विधार्थी मीयेत दुर्नीतिनय-प्रमाणेः" ।
जिनागमे कुत्रापि प्रमाणनयविचारो न विद्यत इत्येवं केचिद्वदन्ति ते तु भगवदागमानभिज्ञा एव । यथागमे "इमाणं भंते रयणपभापुहवी किं सासया असासया? गोयमा । सिय सासया सिय असासया । से केणतुणं भंते एवं वुच्चइ ! गोयमा ! दव्वयाए सासया पन्जवट्ठयाए असासया" । अत्र द्रव्यास्तिकनयेन रत्नप्रभापृथव्याः शाश्वतत्वं प्रोक्तं पर्यायास्तिकनयेनाशाश्वतत्वं चोक्तम् ।
निक्षेपाणां विचारः इत्थंकृतः । आद्यास्त्रयो नया नामस्थापनाद्रव्यरूपं निक्षेपत्रयं मन्यन्ते । शेषाश्चत्वारो नया भावनिक्षेपमेव केवलं मन्यन्ते । घटपदार्थस्य चत्वारो निक्षेपा उदाहियन्ते । तत्र यस्य कस्यचिद्वस्तुनो घट इति