________________
तत्प्रामाण्यं दाढर्येन पञ्चाशीत्युत्तरशततमपत्रपर्यन्तं निरूपयति । तदनन्तरं चतुर्दशोत्तरशतद्वयपत्रपर्यन्तं तकस्याहार्यज्ञानत्वेन स्वरूपेणाप्रामाण्यं मन्यमानस्य नैयायिकस्य विकल्परूपत्वेन मिथ्याज्ञानप्ररूपकस्य बौद्धस्य च मतखण्डनं कृत्वा त्रिकालव्याप्तिग्रहरूपस्य तस्य स्वतः प्रामाण्यं प्रतिपादयति । पञ्चदशोत्तरद्विशततमपत्राद् ग्रन्थप्रथमभागपर्यन्तमनुमाननिरूपणम् । २१५ तमे पत्रे 'तच्च द्विविधं . स्वार्थ परार्थं च" । अग्रे त्रिलक्षणादिहेतु खण्डयित्वान्यन्यथानुपपत्तिस्वरूपो हेतुः स्वसाध्यसाधनाय समर्थ इत्येवं सविस्तरं प्रतिपादयति । तदनन्तरं स्वार्थपरार्थानुमानान्त- .
ाप्ति-बहिर्व्याप्ति-हेतु-हेत्वाभास--पक्षधर्मत्वादिस्वरूपमनु- . मानं विवेचयति ।
ग्रन्थद्वितीयभाग आगमप्रमाणविवेचनं । सविस्तरं दृश्यते । "आप्त वचनमागमः । यथा-स्थितार्थपरिज्ञानपूर्वकहितोपदेशप्रवण आप्तः" इत्येवं ग्रन्थेऽस्मिप्रारम्भ एव प्रतिपादितम् । आगमप्रमाणे क्वचिद्वस्तुनः प्राधान्येन समस्तधर्मप्रतिपादनम् , क्वचिद् वस्तुन एकांशप्रतिपादनम् । यत्र प्राधान्येन वस्तुनः समस्तधर्म-प्रतिपादनं विद्यते तत्प्रमाण वाक्यम् । यत्रैकदेशप्रतिपादनं प्राधान्येन विद्यते तन्नयवाक्यम् । प्रमाणनयौ ज्ञानशब्दाभ्यां द्विस्वरूपौ। यः प्राधान्येन सकलधर्मप्रतिपादकाभि...