SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ मन्यन्ते ये च नैयायिकादयस्तत्परव्यवसायि स्वीकुर्वन्ति तेषां मतान्येकान्तप्रतिपादकत्वेन निष्कलङ्कज्ञानकलितजिनेन्द्रप्रणीते जन्तुजात-हितावहे पौर्वापर्यविरोधकलंकविकले सार्वशासने दुर्नयरूपत्वेन दुष्यन्ते । पत्रविंशतेरनन्तरं द्वाचत्वारिंशदुत्तरशतपत्रपर्यन्तं सांव्यवहारिक पारमार्थिकप्रत्यक्ष प्रतिपाद्य, सांव्यवहारिकप्रत्यक्षे चक्षुर्मनसी विहाय शेषेन्द्रियाणां व्यञ्जनावग्रहादिभेदं निरूप्य चक्षुर्मनसोरप्राप्यकारित्वं संसाध्य मतिज्ञानस्य मुख्यावान्तरभेदो प्रतिपादयति । तदनन्तरं श्रुतज्ञानादिचतुष्टयज्ञानस्वरूप भेदप्रभेदयुतमाक्षेपपरिहारपूर्वकं सविस्तरं विवेचयति । केवलज्ञाननिरूपणकाले दिगम्बरस्य केवलिकवलमुक्तिनिषेधप्रतिपादकपूर्व पक्षं स्थापयित्वा तद्भुक्तिसिद्धिं चतुरचेतश्चमत्कारकारिणीभियुक्तिभिर्दर्शयति । प्रत्यक्षज्ञानस्वरूपमेवं प्रतिपाद्य परोक्षज्ञानप्रतिपादनकाले स्मरण प्रत्यभिज्ञा-तर्कानुमानागमस्वरूपान् परोक्षभेदान् सविस्तरं वर्णयति । एतदेव प्रतिपादयति ग्रन्थकारस्त्रिचत्वारिंशदुत्तरशततमे पत्रे “अथ परोक्षमुच्यते' "अस्पष्ट परोक्षम्' 'तच स्मरणप्रत्यभिज्ञान तर्कानुमानागमभेदतः पञ्चप्रकारम्"। . स्मृतिप्रत्यभिज्ञाननिरूपणकाले तयोरप्रामाण्यं मन्यमानस्य बौद्धस्य मीमांसकस्य च सविस्तरखण्डनपूर्वक
SR No.022395
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorIshwarchandra Sharma, Ratnabhushanvijay, Hembhushanvijay
PublisherGirish H Bhansali
Publication Year
Total Pages598
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy