________________
रङ्गशालायां शासनास्तित्वपर्यन्तं स्वकीयकीर्तिस्तम्भं च वैक्रम १७४३ तमे वर्षे शासनप्रभावकाणां मुनीश्वराणां मुनिचन्द्रसूरीश्वराणां जन्मभूमौ दर्भावतीपुर्यां (डभोइ) संत्यज्यौदारिकशरीरममरत्वं प्रपेदे ।
- ग्रन्थपरिचयः - यद्यपि नातिकठिनोऽयं ग्रन्थस्तथाप्येतस्या अवसर्पिण्याः पंचमारे मन्दमेधसामेदंयुगीनानां बालजीवानां सुखावबोधायेयं हिन्दीभाषाटीकातीवोपकारिणी । अतः फलेग्रहिमुद्रणादिप्रयासोऽस्याष्टीकायाः । यथार्थ वर्ततेऽस्य ग्रन्थस्य नाम "जैनतर्क भाषा” इति । यतो यथार्थज्ञानसाधनानि प्रमाण-नय-निक्षेपा एवास्मिन् ग्रन्थे प्रतिपाद्यन्ते । यद्यपि "तयन्ते प्रमितिविषयीक्रियन्त इति तर्काः" इति व्युत्पत्त्या तर्कशब्दः प्रमाणप्रमेयवाच- कस्तथापि प्रमासाधनमपि "तर्कः" इत्युच्यते गौतमीयादिग्रन्थेषु । स एवार्थोऽत्र ग्राह्यः ।
विंशतिं यावत्पत्राणामस्मिन् ग्रन्थे "स्वपरव्यवसायि ज्ञानं प्रमोणम्" इति लक्षणं कथयित्वा तल्लक्षणममन्यमाना ये ये दर्शनकारा विद्यन्ते तेषां मतखण्डनं प्रबलयुक्त्या प्रतिपादयति । बाह्यार्थनिषेधवादिनः शङ्कराचार्यादयः क्षणिकज्ञानाद्वैतवादिनश्च प्रमाणं स्वव्यवसायि