________________
संप्राप्याका तानधोमुखान् । अत एव तन्मतनिरसनार्थमात्मार्थिनां सम्यक्त्वदाढाथ चानेकग्रन्थानरचयन् । यथा दिगम्बरानपाकतु ज्ञानार्णवाध्यात्ममतपरीक्षा-दिग्पटचोराशीबोल-इत्यादिग्रन्थान रचयाश्चक्रुः, तथैव स्वोपज्ञटीकासमन्वितप्रतिमाशतकग्रन्थं विरच्याधरीचक्रुः दुःषमान्धकारप्रदीपायमानजिनवचनसिद्धप्रतिमाप्रतिषेधकानां दर्पम् ।।
अपरश्च रहस्यपदलाञ्छिता अष्टोत्तरशतं ग्रन्था निमिताः समस्तशेमुपीशालिजनग्रहगणांशुमालिभिः श्रीमद्भिः । वृत्तमेतदवगम्यते तद्वचनैरेव यथा-"भाषाविशुद्धयर्थं रहस्यपदाङ्गिततया चिकीर्षिताष्टोत्तरशतग्रन्थान्तगतप्रमारहस्य-स्याद्वादरहस्यादिसजातीयं भाषारहस्यप्रकरणमिदमारभ्यते" इति भाषारहस्यप्रारम्भे ।
इदानीमप्येतद्ग्रन्थावगाहनतत्परा विद्यार्थिनः शास्त्रपारावारतलावगाहनावाप्तविशिष्टबोधरत्नानामुपाध्यायमहो-- दयानां कृत्स्नविषयव्यापकं महत्त्वख्यापकं पाण्डित्यं परिलोकयन्तो बुद्धिविषयकमपूर्वमाश्चर्यमनुभवन्ति स्वयश्च तर्कशक्तिसमन्विताः समर्थविद्वांसो भवन्ति ।
एवं गुरुभक्तिप्रभावेण रचितानेकग्रन्थः प्राप्तदेशनाकौशल्यो वाचकेन्द्रो वादैर्वादिवृन्दं विजित्य विभिन्नदेशस्थाञ्जनान् धर्माराधनतत्परान्कृत्वा संस्थाप्यास्यां जगद्