________________
शिष्यप्रार्थनया नयादिविजयप्राज्ञोत्तमानांशिशुः तत्त्वं किश्चिदिदं यशोविजय इत्याख्याभृदाख्या
तवान्" ॥ यद्यप्यस्यां प्रशस्त्यां किं विषयका एते शतं ग्रन्था इति स्पष्टतया नोल्लिखितं, तथापि न ते जैनप्रक्रियाप्ररूपकाः सरला भवेयुः, किन्त्वश्यमेव न्यायविषयका गम्भीरा असाधारणप्रतिभाप्रदर्शकाः । यतः - तत्समकालीन-गदाधरादिपण्डितै रचिता व्युत्पतिवाद-शक्तिवादाद्यनेकन्यायग्रन्था इवते यदि न स्युस्तहि कथमन्यदर्शनवासितान्तःकरणपण्डितवर्यास्तेभ्य उपाध्यायमहोदयेभ्यो 'न्यायाचार्य' विरुदं दद्युरिति कल्पयेऽहम् ।
प्राप्तसरस्वतीवरदानासाधारणक्षयोपशमपराजिता-- नेकपण्डितवर्या वाचकेन्द्रा अनुक्रमेण दिल्ही-आग्रादिभूमि धर्मोपदेशेन पवित्रीकुर्वन्तोऽलश्चक्रिरे स्वचरणारविन्दैमरुदेशम् । तत्रापूर्वी शासनप्रभावनां कृत्वानेकभावुकजनान् प्रतिबोध्य वाचकवर्याः सुरलोकसदृशं भ्राजमानमनेकाद्भुतजिनमन्दिरमण्डितं धार्मिकजनपवित्रितं गूर्जरदेशं शोभया. मासुः ।
तदानीमासीत् समस्तागमलोपकानाः दिगम्बराणां जिनप्रतिमालंबनप्रतिषेधकतणां ढुढकानाच मतप्राचुर्यम् । अतस्तन्मतानुयायिभिः सह वादं विधाय विजयपताका
धर्मोपदापूर्वी शलोकमा