SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २५ देशमधिगम्य वाचकवर्यास्तेन साधं स्याद्वाद-प्रमाण-नयस्थापितयुक्तिभंगभंङ्गीभिर्वादं विधाय निराकुर्वस्तम् । अत एवासाधारणशेमुषी समीक्ष्य वाराणसीविद्वद्वर्या अदुः श्रीमद्भयो न्यायशास्त्रपारदृश्वभ्यो न्यायविशारद' इति बिरुदम् । पण्डितप्रवरजनदत्तविजयपताका न्यायविशारदा व्यहरन्नेकदोपगङ्गम् । तत्र चित्ताल्हादकस्थानं संप्रेक्ष्येहाश्चक्रुराराधयितु कविजनमस्तकमुकुटसन्निभां भारति भारतीम् । एकविंशतिं दिनानामजपन गुरुदत्तसरस्वतीमन्त्रमुपगङ्गम् । जपप्रभावेण सरस्वती तत्समक्षं साक्षाद्भय दत्तवती कवित्वशक्ति श्रीमद्भयः । एतच्च न्यायखण्डखाद्य प्रारम्भे प्रतिषादितं श्रीमद्भिः स्वयम् ; यथा"ए कारजापवरमाप्यकवित्ववित्वं, वाञ्छासुरद्रुमुपगङ्गमभरङ्गम् । सूक्तैर्विकाशकुसुमैस्तव वीर शम्भो रम्भोजयोश्चरणयोर्वितनोमि पूजाम्" । अपरञ्चास्य ग्रंथस्यैव प्रमाणेन तद्ररचितग्रन्थानां शतं सिद्धयति । तच्चेदम्"पूर्व न्यायविशारदत्व विरुदं काश्यां प्रदत्तं बुधायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् ।
SR No.022395
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorIshwarchandra Sharma, Ratnabhushanvijay, Hembhushanvijay
PublisherGirish H Bhansali
Publication Year
Total Pages598
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy