SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रामाण्यान्निरुक्तनिक्षेपचतुष्टयस्य सर्ववस्तुव्यापित्वमवसेयम् । एवं नयनिक्षेपविषये सप्तभंगी विषये च ग्रन्थकारेणातिविशदतया पदार्थ पृथक्करणं कृतं तत्सर्व समालोचनीयंसुधिया स्याद्वादपरिकर्मितधिया धीधनेन । . पूज्यपाद-व्याख्यानवाचस्पति-परमशासनप्रभावकाचार्यदेवानां श्रीमतां विजयरामचंद्रसूरीश्वराणां पट्टालंकारपूज्यपाद--प्रशांतमूर्त्याचार्य देवश्रीमद्विजयजितमृगाँव.सूरीश्व-- राणां शिष्यरत्नाभ्यां मुनि रत्नभूषण-हेमभूषणविजयाभ्यां ग्रन्थस्यास्याध्ययनकाले ग्रन्थोऽयमनुवादयितु विवेचयितुश्चाभिलषितः, कालान्तरेण पंडितवर्येश्वरचन्द्रमहोदयेन अस्य ग्रन्थस्य हिन्दीभाषानुवादेन विवेचनया च तयोईयोरभिलायोऽपूर्यत । विलोकयन्तां साद्यन्तमिमा टीका सुविचारचातुरीपूर्व सर्वे स्वच्छमानसा विदांवरिष्ठाः। मधुरतरप्रमाणनयनिक्षेपामृतरसमयस्य सुरगुरुसुधामधरीकुर्वाणस्यैतद्ग्रन्थस्य पानेन बुधास्तृप्यन्तु | आत्मसात्कुर्वन्तु महानुभावाः पदार्थसूक्ष्मतत्त्वावगाहनविचारकरणचतुरास्सदसद्विवेककारणं भवभयनाशनं यथार्थज्ञानम् । सफलीकुर्वतामेतद्ग्रन्थस्य रचयितु. विवेनाकर्तुश्च परिश्रमम् । प्राप्नुवन्तु ते यथार्थज्ञानफलां
SR No.022395
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorIshwarchandra Sharma, Ratnabhushanvijay, Hembhushanvijay
PublisherGirish H Bhansali
Publication Year
Total Pages598
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy