SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 10 सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [ जडद्रव्य तत्वमुक्ताकलापः '* जीवेशतत्वप्रमितियुत सर्वार्थसिद्धिः शिष्टा - चोदितेत्यर्थः । जीवेशावेव तत्वे जीवेशतत्वे । तयोः 'प्रमितिरिहागमजन्या । परोपास्तेस्तत्वज्ञानमितिकर्तव्यता । न तु स्वयं साधनम् । प्रमितियुता प्रमितिजनितानुस्मृतिपूर्विकेत्यर्थः । तदभिप्रायेणोक्तं 'जीवपरमात्मयाथात्म्यज्ञानपूर्वक' इत्यादि । आनन्ददायिनी शिष्टेति —— शासेः रूपं न तु शिषेरित्याह--- चोदित्यर्थ इति । तत्वप्रमितेर्विनष्टत्वात् तद्युक्तत्वं तज्जन्यत्वं वा न संभवतीत्यत्राह प्रमिति - जन्यानुस्मृतिपूर्विकेति । परविद्यापरत्वं परोपासनाशब्दस्याभिप्रेत्याहसर्वविद्याभिप्रायमिति--' स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम्' इति परविद्याप्रकरणाम्नानमुपलक्षणमिति भावः || 3 भावप्रकाशः '*जीवेशतत्वप्रमितीति- -' पृथगात्मानं प्रेरितारं च मत्वा ' द्वे विद्ये वेदितव्ये ' इत्यादिश्रुतयोऽत्राभिमताः ॥ 2*जीवेशतत्वे इति-तत्वं द्विविधं ईशरूपमीशितव्यरूपं चेति ; ' क्षरात्मानावीशते देव एकः ' ' ईशावास्यमिदं सर्वं ' ' स ईशोऽस्य जगतो नित्यमेव' इत्यादिश्रुतेरित्याशयः । जिज्ञासाधिकरणान्ते श्रुतप्रकाशिकायां तत्वत्रयाधिकारे चेदं व्यक्तम् । परतन्त्रचेतनो जीवः स्वतन्त्र ईश्वर इति न्यायपरिशुद्धिसूक्तया स्वतन्त्रमस्वतन्त्रमित्यपि विभागस्सूच्यते || *प्रमितिरिहागमजन्येति एतच्च अदृश्यत्वादिगुणकाधिकरणे भाष्ये स्पष्टम् ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy