SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सरः ] प्रबन्धावतरणम् तत्वमुक्ताकलापः 9 शिष्टा सर्वार्थसिद्धिः '* नन्वपवर्गसिद्धौ यदन्तरङ्गं तदेव विशदं तदर्थिभिरवगन्तव्यम् । तावदेव शिष्यादिभ्योऽपि प्रवर्तितव्यम्, किमन्यैरिह कीर्त्यमानैरित्यत्राह - शिष्टेति । आनन्ददायिनी ननु तत्वमुक्ताकलापं व्यातानीत् इति वदता तत्वनिरूपणं विहाय जीवेशज्ञानपूर्वकोपासनाया मुक्तिहेतुत्वप्रतिपादनमनुपपन्नं इत्यत्राह—ननु अपवर्गसिद्धाविति ॥ भावप्रकाशः '* नन्वपवर्गसिद्धाविति-— अयमाशयः — यद्यपि पदार्थानां परस्परव्यावर्तकाकारप्रदर्शनै दम्पर्येण प्रवृत्ते वैशेषिकदर्शने द्रव्यगुणकर्मसामान्यविशेषसमवायरूपेण विभक्तानां पदार्थानां मध्ये कर्मादीनां द्रव्यगुणयोरेवान्तर्भावेन द्रव्यस्यापि गुणत्वेन व्यवहारेण च गुणपदस्थाने अद्रव्यपदं निवेश्य द्रव्यमद्रव्यमित्येव तत्सूत्रं शिक्षणीयमिति व्याससिद्धान्त इति न्यायपरिशुद्धौ निपुणतरमुपपादयिष्यमाणदिशा द्रव्याद्रव्यविभागोऽपि युक्तरस्यान्नाम ; अथापि न्यायपरिशुद्धौ प्रमेयाध्याये द्रव्याद्रव्यविभागज्ञानस्य साक्षादपवर्गसाधनत्वाभावस्य स्फुटं प्रदर्शनात् श्रुतिसंप्रदायसिद्धं स्वैरेव ग्रन्थान्तरेषु प्रदर्शितं ईशेशितव्यविभागं परावरविभागं च परित्यज्य द्रव्याद्रव्य प्रभेदादिति वक्ष्यमाणविभागकरणमनुचितं ईशेशितव्यपरावरविभागज्ञानस्य अपवर्गान्तरङ्गत्वात् इति ||
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy