________________
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलाप:
जडत
तत्वमुक्ताकलापः आतन्वानः प्रकाशं बहुमुखमखिलत्रासवैधुर्यधुर्यो धार्यों हेतु जयादेस्स्वहृदि सहृदयैस्तत्वमुक्ताकलापः ॥ ३ ॥
सर्वार्थसिद्धिः धीस्थत्वम् । प्रकाशं-आलोकं बोधं च । बहुमुखं सर्वतोदिकं सर्वविषयं च । त्रासो---मणिदोषः प्रतिपक्षाद्भीतिश्च । जयादेरित्यादिशब्देन क्वचिदैश्वर्यादेरन्यत्र तत्वनिर्णयस्य च संग्रहः । हृच्छब्दो वक्षश्चित्तं च वदति । सहृदयैस्सारासारविवेचनाहहृदयवद्धिः। धार्यः क्वचिदाभरणतयाऽन्यत्राप्रमोषेण ॥ ३ ॥
आनन्ददायिनी नाशयः ; तद्व्याख्याने- 'स्वरसन्ध्याप्तसौन्दर्ये यतिभङ्गो न दोषभाक्' इत्यभिधानात् । अत्र स्वरसन्धिलब्धसौन्दर्यसत्त्वान्न दोष इति भावः ।।
भावप्रकाशः अपि विधिकोटिवादिन एव । 'सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म' 'ज्ञोऽत एव' इत्यादिसूत्रैस्तथाऽवगमात् । अत एव शबरस्वामिनाऽपि आत्मनोऽहम्प्रत्ययविषयत्वं विज्ञानाश्रयत्वं चोक्तम् । कुमारिलभट्टैश्च आत्मनः कौटस्थ्यानिराकरणपूर्वकं तद्वयवस्थापनं कृतम् । शङ्कराचार्यैरपि समन्वयाधिकरणे आत्मनः कूटस्थनित्यताभ्युपगमेन वृत्तिकारमतं निराकृतम् । अतो मीमांसका अपि सगुणात्मवादिन एव । विभागे चास्मिन् ब्रह्मणः परिणामज्ञानं स्वभिन्नगुणवत्ता ज्ञानं च मोक्षसाधनमित्येतदंशद्वयसूचनंफलम् । अत एव 'जन्माद्यस्य यतः' 'परिणामात्' 'अदृश्यत्वादिगुणको धर्मोक्तेः' 'विवक्षित्गुणोपपत्तेश्च' इत्यादिसंगतिः । व्यक्तीभविष्यति चेदमुपरिष्टात् । * 'जयादेरित्यनेन न्यायसिद्धाञ्जनन्यायपरिशुद्धयपेक्षया तत्वमुक्ता कलापस्य परमतनिराकरणप्राधान्यं बोध्यते ।