________________
सरः ]
प्रबनधवतरणम्
11
तत्वमुक्ताकलापः
परोपासना मुक्तिहेतुः शक्यः सर्वार्थसिद्धिः
'* परोपासनेति सर्वविद्याभिप्रायम् । परस्य ब्रह्मण उपासनेति वा । शक्य इत्यादि-न हि द्रव्याद्रव्यविभागाभावे शिष्टोपासनमूलकतत्वप्रतीतिसिद्धिः !तत्वनिरूपणाभावे च तत्वनिर्णयोपयुक्त योस्तआनन्ददायिनी
योगवृत्त्या सर्वविद्यापरत्वमाह — परस्येति । तत्तदिति — जीवेशपरत्वे
भावप्रकाशः
* परोपासनेति उपासनैव मोक्षसाधनमिति प्राचां वृत्तिकाराणां सम्मतमित्यन्यत्र स्पष्टम्। अत्र उपासकस्य प्रपदनमङ्गकोटौ । अशक्तानां तूपासनास्थाने इति वेदार्थसंग्रह तात्पर्यदीपिकादौ । एतेन - ईशेशितव्यपरावरविभागज्ञानस्यापि उपासाद्वारैवोपयोगः न तु साक्षादिति सूचितम् ॥
* नहीत्यादि । अयमाशयः - ईशेशितव्यपरावरविभागज्ञानस्य किं रूपमपवर्गसिद्धावन्तरङ्गत्वं साक्षादुपायत्वं आहो स्वित्परम्परयोपकारकत्वम्? नाद्यः भक्तिप्रपत्तिव्यतिरिक्तविभागज्ञानस्योपायताया अप्रामाणिकत्वात् । द्वितीये तु जीवस्य परब्रह्मणोत्यन्तनिकर्षज्ञानसंपादनमुखेन भगवद्भक्तिजननादिद्वारा तस्योपयोगवत् द्रव्याद्रव्यविभागज्ञानस्यापि ब्रह्मगुणानां ब्रह्मणश्च तात्विकपरस्परभेदवत्त्वादिज्ञानसंपादनमुखेन प्रतिनियतगुणवह्मज्ञानस्यैव मोक्षोपायत्वस्थिरीकरण मूलकभगवद्भक्तयादिजननात्मकोपकारकत्वस्य तुल्यत्वात् । असंप्रज्ञातसमाधावपि परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' इति श्रुत्युक्तषाड्गुण्य