SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सरः ] प्रवन्धावतरणम् 3 सर्वार्थसिद्धिः ताराकल्पे स्फुरति सुधियां तत्वमुक्ताकलापे दूराद्वृत्त्या दुरधिगमतां पश्यतां सर्वसिद्धयै । नातिव्यासव्यतिकरवती नातिसङ्कोचखेदा वृत्तिसेयं विशदरुचिरा कल्प्यतेऽस्माभिरेव || २ ॥ आरिप्सितस्य प्रबन्धस्याविघ्नपरिसमाप्तयादिसिद्ध्यै मङ्गळमाचरन्नर्थाद्वक्ष्यमाणं द्रव्याद्रव्यविभागं प्रतितन्त्रविशेषांश्च संग्रआनन्ददायिनी श्रीमान् वेङ्कटनाथार्यः तत्वहितपुरुषार्थज्ञानहीनानवलोक्य सञ्जात कारुण्यः तद्रक्षणाय प्राचीनप्रबन्धेषु संक्षिप्तान् विप्रकीर्णांश्च सङ्कलय्य तत्वमुक्ताकलापाख्यपद्यरूपप्रबन्धेन निरूप्य तस्य दुरधिगमतामवलोक्य स्वयमेव व्याख्यास्यन् निर्विघ्नपरिसमाप्तिप्रचयगमनाय शिष्टाचारपरिप्राप्तं गुरुप्रकाशनरूपं मङ्गलमारचय्य शिष्यशिक्षार्थं निबध्नाति — जयतीति ॥ ताराकल्पे–नक्षत्रसदृशे । दूराद्वृत्या–नक्षत्रपक्षे दूरस्थित्येत्यर्थः । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति सप्तम्यर्थे पञ्चमी । ग्रन्थपक्षे वृत्तिः—–व्याख्या वृत्त्या इति षष्ठी; वृत्तेर्दूराद्धेतोः – वृत्त्यभावादिति यावत् । यद्वा कर्तरि तृतीया । वृत्त्या -- क्रमदूरत्वादित्यर्थः । दुरधिगमत्वं एकत्र अप्राप्तिः अपरत्राज्ञानम् । व्यासो – विस्तरः । व्यतिकरः —— सङ्कीर्णता । खेदा – खिद्यमाना कर्मणि घञ् । भावप्रकाशः श्रीकृष्णब्रह्मतन्त्रात् कलिमथनगुरोर्लब्धवेदान्तसारः विन्यस्तस्वात्मभारो वरदपदमुखे लक्ष्मणे देशिकेन्द्रे | वागीशप्राप्ततुर्यः हयमुखचरणत्राण सेवाधुरीणः काचित्काचार्यभावं प्रकटयति यतिः नव्यरङ्गेन्द्रनामा ॥ ३ ॥ 1*
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy