SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ - सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य श्रीतत्वमुक्ताकलापः लक्ष्मीनेत्रोत्पलश्रीसततपरिचयादेष संवर्धमानो नाभीनाळीकरिङ्गन्मधुकरपटलीदत्तहस्तावल. म्बः! अस्माकं संपदोघानविरलतुळसीदामसजात. सर्वार्थसिद्धिः हेण सूचयति लक्ष्मीति । * 'यज्ञविद्या' इत्यादिना सर्वविद्यानां तादधीन्योक्तया सा ख्याप्येति. लक्ष्मीरादौ संकीर्त्यते । नित्ययुक्तत्वसूचनाय सततपरिचयोक्तिः। नाभीत्यादिना पद्मभुवः कार्यत्वकर्मवश्यत्वसूचनात्ततोर्वाचामनीश्वरत्वं कैमुतिकसिद्धम् । अस्माकमिति जीवानां ईश्वरात् अन्योन्यं च भेदः प्रत्यक्त्वं अहंशब्दार्थत्वं च प्रख्याप्यते, तेन स्थालीपुलाकन्यायेन परमतनिरासमप्युदाहरति । संपदोघानिति-* तत्वज्ञानादिकाः स्वप्राप्तिपर्यन्तास्सिद्धिपरम्पराः। अविरळेत्यादिना सत्वाधिकप्रशस्ततमद्रव्यार्चनीयतयाऽन्येभ्यो व्यावर्तनीयत्वं वर्ण्यते। भावप्रकाशः व्यासो जैमिनिरप्रतीपहृदयावाचार्यशिष्यौ परां मीमांसां निबबन्धतुः तदनु तां बोधायनाद्या बुधाः । व्याख्यन् ब्रह्मनयस्य लक्ष्मणमुनिर्भाष्यादि तत्र व्यधात् तत्सर्वं सुदृढीचकार निगमान्तार्यो दयन्तामिमे ॥ ४ ॥ *' यज्ञविद्येत्यादि---विष्णुपत्नया एव वाग्देव्या अनुग्रहवशात् व्यासस्य वेदविभागब्रह्मसूत्रमहाभारतकरणमिति ब्रह्मवैवर्ते स्पष्टम् । निरूपितं चैतत् हयशिरोरत्नभूषणे ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy