SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ 640 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे .. आनन्ददायिनी अधिहृदयगुहं मे वासमासाद्य नित्यम् व्यलिखदखिलमर्थं माद्यमुक्तासरस्य । इति को(कु)शिककुलजलनिधिसुधाकरस्य निगमान्त(निगमशिखरपर)विद्याकुमुदिनीसंमोद(दिनीनिशा)करस्य वेदान्ताचार्यस्य भागिनेथेन वत्सकुलतिलक(वत्सकुलकलशजलधिकौस्तुभ) श्रीनृसिंहगुरुतनयेन नृसिंहदेवेन विरचितायां सर्वार्थसिद्धिव्याख्यायां आनन्ददायिन्यां जड द्रव्यसरः प्रथमः ॥ - - - भावप्रकाश प्राचीनमेव पन्थानमनुरुन्धानाः कविचक्रवर्तिनः काणादाक्षपाददर्शने निरवशेषमेवाकुलीकृत्य जगतोऽनिर्वचनीयत्वं स्थापयामासुः । आचार्याश्च जैमिनिव्यासाशयानुरोधेन तदर्शनपरिष्करणेन जगतस्सत्यतां प्रत्यनैषुः । तत्र सर्वार्थसिद्धिः परमतनिरसनप्रधाना । न्यायपरिशुद्धिन्यायसिद्धाञ्जने तु स्वमतस्थापनप्रधाने इति विवेकः । स्वतन्त्रस्तन्त्रेषु कच निगमचूडागुरुमणिः क नाधीती शास्त्रे वचिदपि यथावन्मितमतिः । स्वयं पङ्गोमूर्ध्नि प्रबलतरगङ्गाझरसमो दृढाभक्तावस्मिन् गुरुवरकटाक्षः प्रपतति ॥ इति श्री लक्ष्मीहयग्रीव दिव्यपादुकासेवक श्रीमदभिनव रङ्गनाथ ब्रह्मतन्त्र परकाल यतिकृते लघुनि सर्वार्थसिद्धिटिप्पणे भावप्रकाशे जडव्यसरः प्रथमः
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy