SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ 610 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप [जद्रव्य तत्वमुक्ताकलापः मन्योन्यबाध्यम् विद्यास्थानं तु सर्वं प्रतिनियत निजोपक्रियांशे सर्वार्थसिद्धिः विद्यास्थानमिति । * येनयेनोपकारेण दश विद्यास्थानानि वेदैरुपजीव्यन्ते तत्रांशे विरोधाभावात् प्रामाण्यं प्रतिष्ठितमित्यर्थः । आनन्ददायिनी येनयेनेति ज्योतिशास्त्रं कालनिर्णायकत्वेनोपकरोतीति तत्र कृत्स्नं प्रमाणम् ; पुराणादीनि तत्वांशादिनिर्णायकत्वेनेति तत्र प्रमाणम् ; विरोधाभावादिति भावः । ननु विरोधस्थले कथं निर्वाह : ? इत्य भावप्रकाशः 2* येन येनेति—ज्यौतिषस्य वेदोक्तकर्मानुष्ठानापयुक्तकाल - निर्णायकत्वेनोपकारकत्वम् ; यथोक्तं लगधेन- वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः । यस्मादतः कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान् ॥ इति । पुराणस्य तु — इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । (महा. आदि. १ अ) इत्युक्तदिशा वेदापबृंहणेनोपकारकत्वम् । यद्यपि नारदीयसंहितायाम्-ब्रह्माचार्यो वसिष्ठोऽत्रिः मनुः पौलस्त्यलोमशौ । मरीचिरङ्गिरा व्यासो नारदश्शौनको भृगुः ॥ च्यवनो यवनो गर्गः कश्यपश्च पराशरः । अष्टादशैते गर्भाराः ज्योतिश्शास्त्रप्रवर्तकाः ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy