________________
सरः]
विद्यास्थानसामरस्यम्
609
तत्वमुक्ताकलापः ज्योतिशास्त्रं पुराणाद्यपि न हि निगमग्राह्य
सर्वार्थसिद्धिः
माह – ज्योतिरिति । निगम ग्राह्यमिति हेतुगर्भम् । यद्युभयबाधोऽन्यतरबाधो वा ; न तत्र बाधितस्य वेदोपकारकत्वं स्यादिति भावः । कथं वा विरुद्धयोस्साकल्येन प्रामाण्यम् ? इत्यत्राह -
आनन्ददायिनी
त्यन्ये । भुवो मर्यादेत्यपरे । पूर्वोक्तन्यायेन ज्योतिश्शास्त्रपुराणयोर्विरोधादिति भावः । ननु तत्र कस्यचिद्वाधोऽस्त्वित्यत्राह — अन्यतरबाध इति । न तत्रेति –तथाच विद्यास्थानेषु परिगणनविरोध इति भावः ।
भावप्रकाशः
अक्षश्च ध्रुवोन्नतिः । मध्यमभूपरिधिस्तु एकरूप एव वाच्यः । अन्यथा श्रृङ्गोन्नत्यादेर्व्यत्यासस्स्यात् । तदुक्तं भास्कराचार्यैः ( शिरो. गोला भुवनकोश १६ ) -
श्रृङ्गोन्नतिग्रहयुतिग्रहणोदयास्त
च्छायादिकं परिधिना घटतेऽमुना हि ! |
इति । अत्र यद्यपि —सूर्यसिद्धान्तरीत्या भूपरिधिमानं ५०५९ योज - नानि ; आर्यभटरीत्या ४७१२ ; लल्लाचार्यरीत्या ३३०० ; बराहमिहिररीत्या ३२०० ; ब्रह्मगुप्तरीत्या ४९६७ ( सूक्ष्मम् ) ; भास्कररीत्या ४९६७; परमेश्वररीत्या ३२९९ इति तत्तन्मतभेदेन मानवैषम्यं ज्ञायते ; तथाऽपि अङ्गुलमानभेदेन सर्वमुपपद्यत इति विभावनीयम् ।
SARVARTHA.
39