SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ 608 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः * भूपरिधिकल्पनादिषु वैदिकशास्त्रद्वयविरोधं परिहर्तु आनन्ददायिनी प्रसङ्गस्सङ्गतिरित्याह-भूपरिधीति । भूपरिधिः- भूगोळमि भावप्रकाशः पूर्वपक्षयित्वा स्वयं समागत्य महासुरोयम् स्वयम्भुवस्तत्र वरप्रदानात् । उपैति तोषं जपहोमदानस्नानादि गृह्णन् हि विधुन्तुदाख्यः ॥ इति वृद्धवसिष्ठसिद्धान्तमूलकम् योऽसावसुरो राहुस्तस्य वरो ब्रह्मणा दत्तः । । आप्यायनमुपरागे दत्तहुतांशेन ते भविता ॥ तस्मिन् काले सान्निध्यमस्य तेनोपचर्यते राहुः । याम्योत्तरा शशिगतिःगणितेऽप्युपचर्यते तेन ॥ इति वेदस्मृतिसंहितानुगुण्येनैव समाहितम् । एवं लल्लाचार्येणापि (धीवृ. मिथ्या २७) ग्रहणे कमलासनानुभावात् हुतदत्तांशभुजोऽस्य सन्निधानम् । यदतः स्मृतिवेदसंहितासु ग्रहणं राहुकृतं गतं प्रसिद्धम् ॥ इति । एवं भास्कराचार्येणापि-~ राहुः कुभामण्डलगश्शशाङ्क शशाङ्कगश्छादयतीनबिम्बम् । तमोमयश्शम्भुवरप्रदानात् सर्वागमानामविरुद्धमेतत् ॥ अत्र शम्भुः ब्रह्मेति स्वेनैव व्याख्यातमपि । * भूपरिधीति-भूपरिधिर्द्विविधः मध्यमः (निरक्षदेशीयः) स्फुट(स्वस्वदेशीय)श्चेति । तत्र स्वदेशीयश्च प्रतिदेशमक्षांशभेदेन भिद्यते ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy