SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ सर: पाताललोकादिविषये आपप्रक्रिया 607 भावप्रकाशः इति । यथा वा युगलक्षणविषये तत्रैव यद्यगवधिर्महायुगमुक्तं श्रीषणविष्णुचन्द्राद्यैः । तत् स्थूलं दृग्लिप्ताः महायुगादौ ग्रहेषु यतः ।। कुदिनादौ स्मृतिषूक्तं ग्रहभोत्पत्तिः दिनक्षये प्रलयः । तान्यतिबहूनि यस्मान्महायुगेऽतोप्रसिद्धमिदम् ॥ (ब्रा. सि. मध्यमां ५६) इति । यथा वा उपरागविषये तेनैव यदि राहुः प्राग्भागादिन्दु छादयति किं तथा नार्कम् ? । स्थित्यर्धं महदिन्दोः यथा तथा किं न सूर्यस्य ? ।। किं प्रतिविषयं सूर्यो राहुश्चान्यो यतो रविग्रहणे । प्रासान्यत्वं न ततो राहुकृतं ग्रहणमर्केन्द्वोः ॥ एवं वराहमिहिरश्रीषेणार्यभटविष्णुचन्द्राद्यैः । लोकविरुद्धमभिहितं वेदस्मृतिसंहिताबाह्यम् ॥ यद्येवं ग्रहणफलं गर्गायैस्संहितासु यदाभिहितम् । तदभावे होमजपस्नानादीनां फलाभावः ।। राहुकृतं ग्रहणद्वयमागोपालाङ्गनादिसिद्धमिदम् । बहुफलमिदमपि सिद्धं जपहोमस्नानफलमत्र ॥ स्मृतिपूक्तं न स्नानं राहोरन्यत्र दर्शनाद्रात्रौ । राहुअस्ते सूर्ये सर्व गङ्गासमं तोयम् ॥ स्वर्भानुरासुरिरिनं तमसा विव्याध वेदवाक्यमिदम् । श्रुतिसंहितास्मृतीनां भवति यथैक्यं तदुक्तिरतः ॥ इति । वराहमिहिराचार्यरपि ग्रहणविषये (बृहत्सं. राहुचार. १४-१५) 'यदि मूर्तो भविचारी' इत्यादिना 'राहुरकारणम्' इत्यन्तेन
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy