SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ 606 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य भावप्रकाशः यथा पातालविषये तदन्तरपुटास्सप्त नागासुरसमाश्रयाः । दिव्यौषधिरसोपेताः रम्याः पातालभूमयः ।। __ (सूर्यसि. भूगोला. ३३) इति । भूगोलान्तः पुटे सप्त रम्याः पातालभूमयः । तत्र नागासुरास्सिद्धाः निवसन्ति द्विजोत्तम ॥ (वासिष्ठसि. ११. ९२) इति च । अत्र श्रीविष्णुपुराणादौ पातालादौ सूर्यप्रभा वर्तते आतपस्तु नास्तत्युिक्तम् । पातालदेशानां भूविवररूपतया तदुपपद्यते । 'न भानु. करसंचारः' इत्यादिवासिष्ठसिद्धान्तोक्तिरपि सूर्यस्याधिकप्रकाशाभावाभिप्राया । नागमण्यादिभिः प्रकाशोक्तिरपि सूर्यप्रकाशादप्यधिकप्रकाशसद्भावाभिप्राया । मेरुविषये तु दैवज्ञविलासे लक्ष्मणयज्वना तदिलावृतस्य मध्ये मेरुनगो वेद (८४) योजनोत्सेधः । इत्यादिना विष्णुपुराणोक्तचतुरशीतियोजनप्रमाणमनुसृत्य तत्र सहमांशानादरेण योजनपरिमाणमुक्तम् * लोकानुपादिशाद्भिरिति-महरादिलोकाः ज्योतीषकैरप्युक्ताः ; यथा लघुवासिष्ठे- . स्वर्लोको मेरुरेव स्यात् खे महश्च ततो जनः । ततस्तपः ततस्सत्य उक्ता लोकाश्चतुर्दश ॥ इति । अयमेवार्थः महासिद्धान्तसिद्धान्तशिरोमणिदैवज्ञविलासादिषूपपादितः । शास्त्रान्तरविरुद्धकल्पना न युक्तेत्युक्तं ब्रह्मगुप्तेनापि । यथा कृतादियुगचरणमानसाम्यविषये--- युगपादान्यार्यभटश्चत्वारि समानि कृतयुगादीनि । यदभिहितवान् न तेषां स्मृत्युक्तसमानमेकमपि ॥ (ब्रां. सि. मध्यमां)
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy