SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ सरः] भूसंस्थाने मतभेदाः तन्निरासश्च 605 सर्वार्थसिद्धिः इत्यादिः; '*तदिदं गणितविसंवादाभावेऽपि *शास्त्रान्तरविरुद्धं न कल्प्यं नचोपदिष्टमिति श्रद्धातव्यम् ॥ ६३॥ भूभ्रमणादिवादभङ्गः. आनन्ददायिनी तदिदमिति-तस्यान्यपरत्वेन *लोकोपदेशपरत्वाभावादित्यर्थः ॥ ६३ ॥ भूभ्रमणादिवादभङ्गः. भावप्रकाशः *तदिदमित्यादि--गोलमध्ये पातालादिलोकानां स्थितिकथनमात्रेण भुवोऽधस्तात् पातालादिलोकानां स्थितिः विष्णुपुराणाद्युक्ता नैवोपपादिता । अधस्तात् स्थित्यनुपपादनेऽपि गोलमध्ये पातालादिलोकानां स्थित्यङ्गीकारे को विरोध इति चेत् ; तत्र प्रत्यक्षाभावेन शब्दप्रमाणानुरोधेन तत्कल्पने स्वेच्छया कल्पनानवकाशात् पातालदेशा इत्यादिरयुक्तेति । एवं मेरुयोजनमात्र इत्युक्तिरप्ययुक्तैव ; तत्र विष्णुपुराणाद्युक्तिविरोधात् ज्योतिषकप्रक्रियामनुसृत्य वासिष्ठसूर्यसिद्धान्ताद्युक्तरीत्यैव वक्तव्यतया प्रकृते दक्षिणमेरोरकथनेन तत्कथनेऽप्यानुकूल्यविरहात् । दक्षिणमेरुश्चैतदसंमत इति परमेश्वरवाक्यादवगम्यते । यथाऽऽह गोलदीपिकायाम् केचिद्वदन्ति भूमेरूज़ चाधः प्रविष्ट इति मेरुः । ... आर्यभटेनात्रोक्तं भूगोलात्तस्य मानमूर्ध्वगतम् ।। इति विष्णुचित्ताचार्यश्च ‘तदन्तरपुटास्सप्त' इत्यादिपुराणवचनोदाहरणेन सूर्यसिद्धान्तायुक्ता प्रक्रियाऽनुसृता भवति ; 'पुराणकारस्य हि वैराग्योत्पादने भगवन्माहात्मयज्ञापने च तात्पर्यात् न लोकसंख्यागणिते त्वत्यादरः' इति च तैरुक्तम् । 2 * शास्त्रान्तरविरुद्धमिति–तदविरुद्धा तु प्रक्रिया
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy