SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ 598 सव्याख्यासर्वार्थसिद्धिसहिततत्वमुक्तांकलापे जडद्रव्य तत्वमुक्ताकलापः .रतम्यम् । पाते गुास्तु तस्याः प्रलघु दिवि समुक्षिप्तमेनां न यायात् ॥ ६३ ॥ सर्वार्थसिद्धिः भूपतने दोषमाह-पाते इति । अयं भावः–पातो हि भुवः न तावदुपलम्भागमाभ्यम्! तयोरिह तद्विपरीतत्वात् । नाप्यनुमानतः गुरुत्वात्पतनस्य प्रतिबन्धके निरोधोपपत्तेः । आनन्ददायिनी मूलस्य प्राक्प्रतीचोः पत्रिणोः पतने तारतम्यं—व्यत्यासः प्रसजति–प्राक्पततः पश्चिमत्वं प्रत्यक्पततः प्राक्तुं प्रसजतीत्यर्थः । ननु पतनस्य प्रामाणिकत्वे दोषः कथञ्चित्परिहर्तव्य इत्यत्राहअयं भाव इति । पतने प्रमाणाभावादिति भावः । नन्वनुमानमेव प्रमाणमित्याह-गुरुत्वात्पतनस्येति । गुरुत्वेजप दृढतरबद्धस्य पतनाभावाद्यभिचार इति भावः । प्रतिबन्धकाभावविशेषितं गुरुत्वं पतन भावप्रकाशः *भूपतने इति—यद्यपि लल्लाचार्येण जैनसंमतपतनपक्ष इव उत्पतनपक्षेऽपि यदि गच्छति भूरधोमुखी गगने क्षिप्तमुपैति नो महीम् । यदि वोर्ध्वमुपैति सा तदा निकटः किं न भेवद्भपञ्जरः ॥ (शीष्यधी. तं. मिथ्या ३८) इत्यनेन दोष उक्तः । तत्र उत्पतनवादी को वा दार्शनिक इति न ज्ञायते ;
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy