SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ सरः] भूभ्रमणसाधकलाघवतर्कनिरासः 597 597 तत्वमुक्ताकलापः तद्रान्तौ प्राक्प्रतीचोः प्रसजति पतने प्रत्रिणोस्ता. . सर्वार्थसिद्धिः भ्रमकल्पनं वरमित्ययुक्तम् ; ताराभ्रमणादेरागमिकस्याकल्प्यत्वाच्च । तदेतत्सर्वमाभप्रेत्याह—तद्धान्तौ इति ॥ .. आनन्ददायिनी भ्रमणमपि न स्यादित्यत्राह-ताराभ्रमणादेरिति । इदमुपलक्षणम्-तारादेविदेशप्राप्तिश्च दृश्यत इति भ्रमणलिङ्गं तत्रास्ति ; न च भूभ्रमणे लिङ्गं वास्तीति भावः । ननु तारादेः देशान्तरस्थतया दर्शनं न तल्लिङ्गं भावितुमर्हति ; भूभ्रमणेन द्रष्टुः विप्रकर्षमात्रादपि तत्प्रतीतेरिति चेन्न ; तारादेर्देशान्तरस्थताज्ञानं तत्रैव गतिमनुमापयति । परामर्शस्य स्वविषयसमानाधिकरणस्यै(णतय)वानुमापकत्वात् । स्थिरस्य पर्वतादेनिकटदृष्टस्य दूरे दृष्टिस्तु न पर्वतस्य गतिमनुमापयति ; तत्र द्रष्टुर्गतिमत्त्वस्य प्रत्यक्षदृष्टत्वेन अन्यथासिद्धत्वात् न च तारादेरनेकस्य भ्रमणकल्पनागौरवम् ; चक्रस्यैकस्यैव भ्रमणकल्पनादिति भावः । तद्भान्ताविति भावप्रकाशः इति । तत्रैव जम्बूद्वीपादिकमुक्तम् भूमेर) क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्यवर्याः । अर्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः ।। इति । एवं वर्षादिविभागोऽपि भुवर्लोक एवोपपादितः । प्लक्षादिद्वीपविभागोऽपि उपपादितः । अयमेवार्थः दैवज्ञविलासे विस्तरेणोक्तः । पौराणिकी प्रक्रिया तु श्रीविष्णुपुराणादौ द्रष्टव्या । .
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy