________________
596
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
भावप्रकाशः ऊर्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः । होरेशास्सूर्यतनयादधोऽधः क्रमशस्तथा ॥
(सू . सि. भूगोला. ७८-७९) इतीदं कारिकाद्वयं रङ्गनाथदैवज्ञेन विवृतम्
शनेः सकाशादधः कक्ष्याक्रमेण चतुर्थसङ्ख्याका ग्रहाः दिनाधिपतयो वारेश्वरा भवन्ति । यथा शनिरविचन्द्रभौमबुधगुरुशुक्राः इति तत्क्रमः । वर्षस्य षष्टयधिकशतत्रयदिनात्मकस्य स्वामिनः तद्वत् मन्दादधःक्रमेण तृतीयसङ्ख्याका ग्रहा उक्ताः । चस्समुच्चयार्थे । तत्क्रमश्च यथा-शनिभौमशुक्रचन्द्रगुरुसूर्यबुधा इति चन्द्रात्सकाशात् ऊर्ध्वकक्षाक्रमेण ग्रहा मासानां त्रिंशदिनात्मकानां स्वामिनः कथिताः । तत्क्रमश्चचन्द्रबुधशुक्ररविभौमगुरुशनयः इति । शनेस्सकाशादधःक्रमशः अधः क्रमेण होरेशाः इति ॥
एवं उक्तकक्ष्याक्रमाङ्गीकारे राश्याधिपत्योपपत्तिरपि । अयमर्थः स्सारावळ्यां सम्यगुपपादितः (३-१०).
द्वादशमण्डलभगणस्तस्या सिंहतो रविर्नाथः। . .
कर्कटकात्प्रतिलोमं शशी तथाऽन्येऽपि तद्दानात् ॥ इति । भपञ्जरस्सग्रहो भ्रमतीत्यत्र भगोलीयक्रान्तिवृत्तान्तर्गतराश्याधिपत्यं ग्रहाणां उक्तकक्ष्यामनुसृत्य भ्रमणाङ्गीकारे उपपद्यते । भूभ्रमणपक्षे तु नोपपद्यत इति गूढाभिसन्धिः । तत्प्रकटनं प्रथमत एव कृतम् । उपलम्भानुसारस्येत्यत्र तदेतत्सर्वमाभप्रेतम् ।
त्रिलोकशिब्दार्थश्च ज्यौतिषिकैरेवमुक्तः, यथा सूर्यसिद्धान्तानुसारिणा भास्कराचार्येणभूर्लोकाख्यो दक्षिणो व्यक्षदेशात् तस्मात्सौम्योऽयं भुवः स्वश्च मेरुः ।