________________
सरः]
भूस्थैर्ये ज्यौतिषिकनिबन्धसंमतिः
भावप्रकाशः
मयुक्तम् । उदयास्तमयादौ ग्रहाणां स्थूलतया दर्शनं उच्च स्थितिदशायां किंचित्सूक्ष्मतया दर्शनमनुभवसिद्धम् । नक्षत्राणां तु न तथा । भूभ्रमणपक्षे उभयोरप्युदयास्त पूर्वक भ्रमणाभावेन नक्षत्राणामपि महवदेव स्थौल्यां सौक्ष्म्यविशेषदर्शनं वा; नक्षत्राणामिव ग्रहाणामपि स्थौल्यसौक्ष्मयविशेषदर्शनं वा स्यात् । अस्मन्मते तु ग्रहाणां भ्रमण नक्षत्राणत्वभ्रमणमिति ग्रहाणां क्षितिजसंनिध्यसंनिधिभ्यां स्थौल्य सौक्ष्मदर्शनयोरुपपत्तिः । तदुक्तं श्रीपतिना
―➖➖➖
595
वसुन्धरागोळनिरुद्धधामा दूरस्थितोऽयं सुखदृश्यविम्बः । महजवृत्तोपगतो विवस्वान् अतो महान् भात्यरुणो विरश्मिः ॥ (सिद्धान्तशे)
इति । भास्करेणापि —
उच्चस्थितो व्योमचरस्सुदूरे नीच स्थितस्स्यान्निकटे धरित्रयाः । अतोऽणुबिम्ब: पृथुलश्च भाति भानोस्तथाऽऽसन्नसुदूरवर्ती ॥ (शिरोमणि - गोळा, छेद्यका - २२) उदयास्तमयनिमित्तमित्यादिना सग्रहभपञ्जरभ्रमणवादिनः अर्यभटस्य भूभ्रमणपक्षे इदं न युज्यत इति विवक्षितम् । एवं—
. भानामधरशनैश्वर सुरगुरुभौ मार्क शुक्रबुधचन्द्राः । तेषामश्च भूमिः मेथीभूता खमध्यस्था ॥
इति अर्यभटीयग्रह कक्ष्यावचने मेथी भूतेत्यनेन भूमेः स्थिरत्वं प्रतिज्ञातम् । तत्र च उक्तग्रहकक्ष्याक्रमो मूलम् । भूभ्रमणवादिभिस्तु नैवं कक्ष्याक्रम उच्यते इति । एवम् —
मन्दादधः क्रमेण स्युः चतुर्थी दिवसाधिपाः । वर्षार्धिपतयस्तद्वत् तृतीयाश्च प्रकीर्तिताः ॥
38*