________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
शास्त्रोपलम्भविरोधान्न कल्प्यः । '#भुव एव वायुवददृष्टवशात्तादृशभ्रमणोपपत्तेः । स्यादेवम्! किंनच्छिन्नम् इति चेन्न; #उपलम्भानुसारस्य छिन्नत्वात् । अत एवानन्तताराग्रहभ्रमणकल्पनादेक
आनन्ददायिनी
कल्प्यतां किं तादृशवायुनेत्याह-भुव एवेति । किं नश्छिन्नमिति - भूभ्रमणस्याभीष्टस्य सिद्धत्वादिति भावः । उपलम्भेति — भुवः स्थर्यस्यो - पलम्भादित्यर्थः । अत एवेति - उपलम्भविरोधादेवेत्यर्थः । ननु तर्हि भचक्र
-
594
जडद्रव्य
भावप्रकाशः
1
भावः । स्वत एव भ्रमतीति द्वितीयपक्षमुत्थापयति भुव एवेत्यादि । तद्दृषयति – 2 उपलम्भानुसारस्येति । भूमेर्बहिः प्रबलवायुविशेषकरूपन पूवोक्तदूषणपरिहाराङ्गीकारे उपलम्भस्वारस्यं छिन्नमेवेति भावः । अयमाशयः—सग्रहभपञ्जरभ्रमणं प्रत्यक्षतस्सिद्धम् । भूगोल भ्रमणं तु न प्रत्यक्षम् । अपि तु काल्पनिकमेव । तत्र दूषणप्रसक्तौ भूगोलस्थ पृथिवीभागस्य वायुमन्तरा भ्रमणस्य प्रत्यक्षतस्सिद्धत्वेऽपि भोगोलस्य स्वभावविशेषाद्रमणामित्यपरा कल्पना । पक्ष्यादीनां नोदनहेतुवायुविशेषप्राबल्यकल्पनेन पूर्वोक्तदूषणपरिहारेऽपि तादृशप्राबल्यमनुपलब्धमिति तदपि कल्पनीयम् । किंच भुवः स्वभावविशेषाद्रमणकल्पकेन वायुविशेषमन्तरेण स्वभावविशेषेण पूर्वोक्तदूषणानां परिहारसंभवात् वायुविशेषो वा कुतः परिकल्पयः ? किंच स्वभावविशेषोक्तिः प्रत्यक्षसिद्ध एवार्थे प्रामाणिकानां न तु काल्पनिकेऽर्थे; भुवस्तु अचलत्वमेव प्रत्यक्षसिद्धम् । तदेव स्वभावतः । यथोक्तं भास्करेण - ' मरुच्चलो भूरचला स्वभावतः' इति । अतस्सर्वस्यापि परिकल्पनया भुवः अचलत्वोपलम्भे भ्रान्तित्वकल्पन