SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ भूपतनवादनिरासः सर्वार्थसिद्धिः निरालम्बे निरवधौ नभसि नित्यं निपतन्तीमलब्धप्रतिष्ठां भुवं कः प्रतिरुन्ध्यादिति चेन्न ; ' वासुदेवस्य वीर्येण विधृतानि' इत्यादिना तत्सिद्धेः । भूपतने चोत्क्षिप्ताश्शिलादयो न कदाचिद्भुवं प्राप्नुयुः । गौरवप्रकर्षकाष्ठाभूताद्भूमण्डलादतिलघीयसां रजःप्रभृ आनन्ददायिनी लिङ्गमिति चोदयति — निरालम्बे इति । निरवधित्वं सन्ततपतनहेतुः । तथा च सर्वदा निरालम्बत्वे सति गुरुत्वात् सन्ततपतनमनुमीयत इत्यर्थः । त्वसिद्धिमाह - वासुदेवस्येति — सरः ] 599 वासुदेवस्य वीर्येण विधृतानि महात्मनः । इति विष्णुपुराणादौ भूम्यादेर्विधृतत्वप्रतीतेरित्यर्थः । प्रमाणाभावमुक्ता बाधक तर्कमप्याह - भूपतने चेति । उत्क्षिप्तशिलादेः पतनेन भूप्रदेशप्राप्तिसमयेऽन्धकूपादौ प्रथमपतितशिला (तल) वत् भुवोऽतिवेगेनाधः पातात् पश्चात्पतच्छिलायाः प्राक्पतच्छिलाप्राप्तयभाववत् भूप्राप्तिरेव कदापि न स्यादिति भावः । ननु प्रथमं पतत्तृणादितः पश्चात्क्षिप्तपाषाणादिकं पतनकाल एव वेगातिशयात्प्राप्तप्नुवद्दृष्टमित्यत्राह – गौरवप्रकर्षेति । नन्वत्यन्तगुरुभूतस्यापि पोतस्य जलधेः पतनं मन्दं दृश्यते ; लघीयस्याः शीघ्रं दृश्यत इति कथमपहास्यता ? वालुकायास्तु इत्यत्राह - भावप्रकाशः अतस्सपक्षो बुद्धया परिकल्पितस्स्यात् । तत्र पतनपक्षोक्तदूषणैरेव उत्पतनपक्षेप दोषस्सूह इति तात्पर्येण भास्करादिभिरुत्पतनपक्षे दोषो नोक्त इति भावेनाचार्यैरपि स पक्षो नोपन्यस्तः ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy