SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ सरः] न्यायमतानुवादः अबाधितनेल्योपलम्भः आलोकाभावत्वसाधनायोगः 575 सर्वार्थसिद्धिः एव दृष्टान्त इति चेन्न; त्वत्पक्षे पक्षदृष्टान्तभेदाभावात् ; अस्मन्मते तु भावातिरिक्ताभावासिद्धेः । आलोकाभावे दिवाभीतादिचक्षुादैर्नीलैयभिचाराच्च । दृग्वैषम्यवत् दृश्यवैषम्यं च व्यवस्थापकं स्यादित्युक्तम् । अतोऽस्मदादिविशेषणेऽप्यनिस्तारः । तमोधर्मभूतनैल्यादिदृष्टान्तस्तु तदभावसाधने विरुद्धः। आरोपितनैल्यादिदृष्टान्तस्तु शुक्तिरूप्यशशशृङ्गादिवदनादेयः । अनारोपितं तु सत्येवालोके चक्षुषा गृह्यते । तथापि भ्रान्तिदशायां गृह्यमाणारोपाभावेऽपि चाक्षुषभ्रान्तिविषयत्वादेवायं हेतुस्सिद्ध इति चेन्न; तमसि नैल्यारोपसिद्धिमन्तरेणास्य हेतोरनुत्थानात् । भवति हि बाधादृष्टान्तलाभः ! तेन च मिथस्संश्रयः। अस्पर्शत्वादिबाधकान्तरं तु निरस्तम् । अत्र नीलमित्येवेत्य आनन्ददायिनी पक्षभिन्नस्यैव दृष्टान्तत्वादिति भावः । अस्मन्मत इति । तथा च चाक्षुष द्रव्यस्य रूपवत्त्वात् तस्यैव तमसोऽन्यस्य वा दृष्टान्तत्वादि(त्यर्थः)ति भावः । अ(त)तोऽस्मदादीति-असयालोके(आलोकाभावेपि)अस्मदादिचक्षुाह्यत्वादित्युक्तेरि(त्युक्तेपी)त्यर्थः । दृष्ट(ष्टि) वैषम्यानुराधेनेव दृश्यवैषम्यानुसारेणाऽपि सङ्कोचसम्भवादिति भावः । तमोनैल्यमसदेव किंचित् ? उत सदेव ? नाद्य इत्याह-आरोपितेति । तथात्वे अतिप्रसङ्ग इति भावः । न द्वितीय इत्याह -अनारोपितं त्विति । तथाचासिद्धयसाधारण्ये इति भावः । ननु बाधाभावेऽपि तमः प्रतीतौ विषयस्य रूपस्य नी(ल)रूपत्वाद्दष्टान्तत्वसम्भवान्नोक्तदोष इति चेन्न ? तथात्वे प्रत्यक्षस्य बलवत्तया बाधप्रसङ्गात् । ननु तमो न रूपवत् अस्पर्शत्वादित्यादिना बाधात् न मिथस्संश्रय इति तत्राह-अस्पर्शत्वादीति । इन्द्रनील
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy