________________
576
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः आरोपे चात्र नैल्यं न भवति नियतं भास्वरान्यत्व
सर्वार्थसिद्धिः वधारणतात्पर्यभेदसिद्धं दूषणान्तरमाह-आरोपे चेति । अयं भावः—आरोप एवात्र न संभवति ; अभावस्य हि स्वरूपमेव हि भेदं मन्यसे । ततस्तद्र्हे वा कथमारोपः ? एवं चं ब्रूषे! आलोको हि भास्वरः ! तद्विरोधी च तदभावः । कृष्णद्रव्यमपि भास्वरान्यत्वात्तथैव । अत आलोकविरोधित्वसाधात् अकृष्णे कृष्णधर्माध्यास इति । एवं सति रक्तपीतादीनामपि तथात्वाविशेषात् तत्र तदारोपः किं न स्यादिति । अत्र यदुक्तं काणादैः'आरोपे सति निमित्तानुसरणं न तु निमित्तमस्तीत्यारोपः' इति । तदयुक्तम्-आरोपे सतीत्यसिद्धेः । निमित्तस्य चाति
आनन्ददायिनी प्रभादौ व्यभिचारादि(रस्स्यादि)ति भावः । अनुभूतस्पर्शवत्त्वकल्पने तमस्यपि तद्बाधकाभावात् । ननु भास्वरान्यत्वरूपसादृश्यस्य नीलद्रव्याभावसाधारण्येनारोपहेतुत्वात् कथं नियतारोपाभाव इत्यत्राह-अयं भाव इति । अत्र मूलस्य-आरोये च - आरोपपक्षे च अभावे नीलारोपो नियतं-नित्यं न भवत्येव-आरोप एव न सम्भवतीत्येकोऽर्थः । नियतंनियमेन नीलरूपस्यैवारोपो न रक्तरूपस्येति नियमो न सम्भवतीति द्वितीयः । तदुभयमाह-आरोप एवात्रेत्यादिना । कथमारोप इति--
अभावस्य ग्रहे तस्यैव विशेषदर्शनत्वात् तदग्रहे धर्मिज्ञानाभावान्नारोप इति भावः । आरोपनियमे तदुक्तं नियामकमाशङ्कते–अत्र यदुक्तमिति । तथाच न रक्ताद्यारोप इति भावः । निमित्तस्य चेति--एकत्रारोपे सति