SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः धिकम् । तच्च स्वतः पृथिव्या एव । ' काठिन्यवान् यो बिभर्ति ' इत्यादिदर्शनात् । गुरुत्वं च तेषुतेषु भूयिष्ठम् । तेजोमात्रे तु न तत्प्रसङ्गः । जले तु सदप्येतन्नैवं क्वचिदतिशयितम् । नचाप्यत्वं तेषामिच्छसि । तदिह पञ्चीकृतारब्धव्यष्टिप्रपञ्चे हेमादिषु पार्थिवाशः प्रभृत इति निश्चीयते । 'कथमन्यथा निष्के तु सत्यवचनम् ' इत्यादि निरूह्येत ? तथात्वे तैजसत्वस्मरणं कथआनन्ददायिनी 564 [ जडद्रव्य ननु काठिन्यं करकादौ व्यभिचारीति तत्राह - तच्चेति । कादावौपाधिकमिति स्वाभाविकं काठिन्यं हेतुरित्यर्थः । पृथिव्याः स्वाभाविकतद्वत्त्वे वैष्णववचनं प्रमाणयति - ' काठिन्यवान् यो बिभर्ति ' इति कठिन पृथिवीशरीरकत्वेन भगवतः काठिन्यवत्त्वमिति भावः । किञ्च सुवर्णादि तैजसं न गुरुत्वाधिकरणत्वात् यत्तैजसं न तद्गुरुत्वाधिकरणमिति परिशेषात्पार्थिवत्वमित्याह-गुरुत्वं च तेष्विति । ननु परिशेषात्कथं पार्थवत्वम् ? जलस्यापि गुरुत्वात्; इत्याशङ्कय समानपरिमाणानां (जलानां न) तारतम्यवद्गुरुत्वाश्रयत्वमित्येवम्भूतगुरुत्वं पृथिव्या एव अन्यथा समानपरिमाणजलान्तरन्यूनाधिकगुरुत्वाधिकरणं न भवति ; यथा तुल्यपरिमाणजलद्वयमिति । किञ्च स्वर्णस्याप्यत्वं तव सिद्धान्तविरुद्ध (त्वत्वमपसिद्धान्तावह)मित्याह - न चाप्यत्वमिति । ननु सिद्धान्ते हेमादस्तजोंऽशसंवलन मङ्गीक्रियते एवञ्च कथं तैजसत्वनिषेधः ! इत्यत्राह -- तदिह पञ्चीकृतेति - यद्यपि तेजोऽशोऽपि विद्यत एव ; तथा घटादिभ्योऽभिमतपार्थित्वेभ्यो न वैलक्षण्यमित्यर्थः । कथमन्यथेति— सर्वात्मना तैजसत्वे प्रभादाविव निष्कादिव्यवहारप्रयोजक गुरुत्वाभावात् ' निष्के तु सत्यवचनं वाच्यं नापह्नवः कार्योऽधिकदोषात्; इत्यादि
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy