SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ सरः] तेजोमात्रत्वायोगः शास्त्रविरोधः तेजसत्वोक्तिभावः तथात्वसाधनायोगश्च 565 तत्वमुक्ताकलापः हाटकाद्याः। ताहत्त्वेऽपि स्फुरत्ताद्यनितरसुलभं किश्चिदन्वीक्ष्य तज्ज्ञैः व्याख्यातं तैजसत्वं विधित सर्वार्थसिद्धिः मित्यत्राह–तादृक्तेऽपीति । स्फुरत्तादि-तेजस्समानं वर्णविशेष स्वतश्शुद्धत्वं चेत्यर्थः । तज्ज्ञैः–तथाभूतवेदिभिः । व्याख्यातंविशेषतः प्रकथितम् । किमर्थमित्यत्र तैजससमाख्यातेषु विधिनिषेधसाधारण्यसौकर्यार्थमित्याह-विधीति । ननु सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामत्यन्तावलुप्तद्रवत्वं दृष्टम् । न तथा हेमादौ! ततस्तेषामपार्थिवत्वम् ? मैवम् ; एवमपि तोयान्यत्वस्य दुस्साधत्वात् । द्रवत्वविशेषाजसत्वसाधने च न कश्चिदृष्टान्तः । आनन्ददायिनी धर्मशास्त्रव्यवहारो न स्यादित्यर्थः । तथात्वे इति–पार्थिवत्वे इत्यर्थः । विधिनिषेधेति–'तैजसं शोधकैशुद्धम् ' 'आयसात्तैजसं शस्तम् ' 'भुञ्जीत तैजसे पात्रे एक एव श्रियं लभेत् ' 'तैजसं शुध्यते नित्यम्' इति विधिः । 'न हरेतैजसं विद्वान् ' तैजसं न यते(गृहे)ह्यम् ' ' न यतिस्तैजसे प्रात्रे' इत्यादिनिषेधः ! ननु स्वर्ण न पार्थिवं अत्यन्तानलसंयोगे सत्यप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात् व्यतिरेकेण सर्पिर्जत्वादिवत् इत्यनुमानात् पार्थिवत्वं बाधितमित्याशङ्कते--नन्विति । सुवर्ण नाप्यं नैमित्तिकद्रवत्वाधिकरणत्वात् जतुवत् इति जलभेदे रूपवतः परिशेषात्तैजसत्वमिति चेत् ; तत्राह-द्रवत्वविशेषादिति । ननु द्रवत्वविशेषाजलभेदमानं साध्यते ; परिशेषातैजसत्वं सिद्धमिति चेत् ; तत्राह
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy