________________
सरः] प्रत्यभिज्ञोपपत्तिः तस्याः स्थैर्यसाधनत्वं हेमतैजसत्वे भ्रमविशेषानुपपतिः 563
तत्वमुक्ताकलापः वर्णानां तादृशत्वादतिकठिनतया गौरवस्यापि भूना धात्रीभागैः प्रभूतैः स्फुटमिह घटिता धातवो
सर्वार्थसिद्धिः यत्तु हेमादेस्तैजसत्वमाहुः—'त्रपुसीसलोहरजतसुवर्णानां तैजसानां अग्निसंयोगाइवत्वमद्भिस्सामान्यम्' इति । तत् प्रागेव पाञ्चभौतिकत्वसाधनात्प्रत्युक्तम् । विशेषतश्च परोक्तेर्भङ्गाय ब्रूमःवर्णानामिति । हेमरूप्यादिवर्णाः पार्थिवत्वाभिमताभ्रकशुक्त्यादिसमा दृश्यन्ते । अन्यथा कथं तत्तद्भमः ? काठिन्यं च तेष्व
आनन्ददायिनी प्रसङ्गसङ्गतिमाह-- यत्त्विति । गौतमसंमतिमाह-त्रपुसीसेत्यादि । अद्भिस्सामान्यं-अप्सु सामान्यं स्वाभाविकमित्यर्थः । नैयायिकैरपि हेमादेः तेजस्संसृष्टत्वमात्रसाधनं सिद्धसाधनग्रस्तमित्याह-तत्प्रागेवेति । नन्वेवमपि वढ्यादेस्तैजसत्वं यादृशं तादृशं साध्यत इत्याह---विशेषत इति । शुक्तयादिसमा इति-शुक्तयादिवर्णसमा इत्यर्थः । तथाच हेमादिवृत्तिपार्थिवं जलवृत्तित्वरहितजातिविशेषेण पार्थिवरूपसजातीयरूपवत्त्वात् अभ्रकादिवदित्यनुमानात् पार्थिवत्वमित्यर्थः । अभ्रकं स्वर्णवर्णः पार्थिवविशेषः । ननु प्रतीयमानो वर्णःशुक्तयादिसजातीयो न भवति हेत्वसिद्धरित्याह--अन्यथेति । तत्समत्वाभावे अभ्रकशुक्तयादौ सुवर्णरजतादिभ्रमः सादृश्यनिमित्तो न स्यादित्यर्थः । काठिन्याच्च हेमादि पार्थिवमित्याह-काठिन्यं चेति । अभ्रकशुक्तयाद्यपेक्षयेत्यर्थः ।
36*