SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ 562 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य तत्वमुक्ताकलापः दीपप्रतीतिः।साम्यादेस्स्यात्तु तद्धीः प्रवहणभिदुरास्सप्रभास्तत्प्रदीपाः निर्बाधा भास्करादौ प्रथयति नियतं प्रत्यभिज्ञास्थिरत्वम् ॥५८॥ सर्वार्थसिद्धिः यादिक्षणे पूर्वपूर्वदीपनाशो न स्यात् ; अनेकघटाद्युत्पत्तिनयायुगपदनेकदीपोपलब्धिस्स्यात् । न चैवमस्ति ! निगमयति---साम्यादेरिति । प्रभया सहोत्पत्तिपक्षेऽप्येवं दीपादेराशुतरविनाशित्वं सिद्धम् । यत्र तु सामग्रयनुवृत्त्यादिहेतुविरहः तत्र स्थिरत्वप्रसङ्गो न दोष इत्यभिप्रायेणाह-निर्बाधेति ॥ ५८॥ स्तिरास्थिरतेजो विभागः. आनन्ददायिनी अनुमानान्तरव्याप्तिमित्यर्थः। पूर्वोत्पन्नदीपो द्वितीयादिकाले नष्टः उत्पन्नत्वे सति देशान्तरासत्त्वे सति योग्यत्वे सति द्वितीयादिप्रतीतिसमयेऽप्रतीयमानत्वात् यद्देशन्तरासत्त्वे सति योग्यत्वे सति द्वितीयादिकाले न प्रतयिते तत् तत्काले नष्टं तेजः प्रतीतिकाले नष्टं यथा तमः इ(त्यनुमानान्तरं द्रष्टव्यम् )ति प्रयोगो द्रष्टव्यः । साम्यादेरित्यादिमूलस्य ; तद्धीः-- तदेवेति प्रत्यभिज्ञा साम्यात्-अत्यन्तसादृश्यात् स्यात् । तस्मात्उक्तहेतोः सप्रभाः प्रदीपाः प्रवहणभिदुराः प्रवाहवत् प्रतिक्षणभिन्ना इत्यर्थः ॥ ५८ ॥ स्थिरास्थिरतेजोविभागः
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy