SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ सरः] वर्तिदीपनाशोत्पत्त्योः प्रत्यक्षता दीपभेदे अनुमानतौं च 561 तत्वमुक्ताकलापः नाशः सामग्रयन्यान्यकार्य न जनयति नचानेक सर्वार्थसिद्धिः सावधानं प्रपश्यद्भिश्च प्रवाहवदीपो दृश्यते । दशाग्रमारभ्य तन्मूलपर्यन्तं प्रतिकलमन्योन्यो दीपः प्रवर्तमानो निवर्तमानश्च दृष्टः । प्रयोगान्तरमभिप्रेत्याह–सामग्रीति । द्वितीयादिस्नेहादिसामग्रीदीपजनिका अविकलदीपजनकजातीयसमुदायत्वात् आद्यवत् ; अन्यथा प्रथमाऽपि नोत्पादयेत् । तथाच जितं चावाकैः । नन्वस्तु प्रतिक्षणदीपारम्भः; प्रतिक्षणविनाशस्तु कुतस्त्यः? इत्यत्र पूर्वानुमानसिद्धेऽपि युक्तयन्तरबाधमाह-नचेति । यदि द्विती आनन्ददायिनी मुदाहरात--सावधानमिति । यथा प्रवाहः प्रबलान्य(पूर्वपूर्वजलान्य)जलपरम्परारूपो दृश्यते ; तथा पूर्वपूर्वदीपान्यदीपपरम्परावत्त्वेन भेदो (पि)दृश्यत इत्यर्थः । भेदप्रत्यक्षादपि प्रत्यभिज्ञा दुर्बलेति भावः । उप्तत्तिविनाशप्रत्यक्षमुदाहरति—दशाग्रेति । प्रवृत्तिरुत्पत्तिः । निवृत्तिविनाशः । प्रयोगान्तरं-अनुमानान्तरम् । आद्यादिपदेन तृतीयादीनां ग्रहणम् । द्वितीयेन वर्त्यग्निसंयोगादयो गृह्यन्ते । प्रथमे सिद्धसाधनतानिवृत्त्यर्थ पक्षविशेषणम् । अविकलं अन्यूनं-सर्वकारणामिलितमिति यावत् । वर्तितैलसमुदाये व्यभिचारवारणाय तद्विशेषणम् । घटादिसामग्रयां व्यभिचारवारणाय-दीपजनकेति । समुदायत्वं च सामग्रीत्वम् । प्रमेयत्वेन (सजातीय) घटसामग्रयां व्यभिचारवाणाय तत् । तथाच दीपजनकसामग्रीत्वेन सजातयित्वादित्यर्थः । आद्यवदिति-आद्यदीपजनकसामग्रीवदित्यर्थः । अप्रयोजकत्वं परिहरति-अन्यथेति । प्रथमाऽपि दीपसामग्री द्वितीयाविशेषान्नोत्पादयेदित्यर्थः । युक्तयन्तरबाधं SARVARTUA 36
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy