SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ 570 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्तकलापे जडद्रव्य तत्वमुक्ताकलापः प्राध्ये स्नेहादिनाशे चरम इव दृढोऽनन्तरं दीप सर्वार्थसिद्धिः इति । पक्षान्तरेषु तु प्रत्यभिज्ञा दुर्बाधेत्यत्राह–प्राच्ये इति । दाह्यविनाशानन्तरं वह्निनाश इति चरमदीपादिषु दृष्टम्। इष्टं च सर्वेषाम् । प्रतिक्षणं च दीपदशादिप्रक्षयो दीपादिषु प्रत्यक्षः। प्रयोगश्च -प्राच्यस्नेहदशादिनाशः स्वानन्तरभाविस्वजनकदीपनाशवान् दीपारम्भकस्नेहादिनाशत्वात् अन्त्यवत् इति । आनन्ददायिनि प्रत्यक्षेणेत्यर्थः । पक्षान्तरे इति-अवयवविशरणानजीकारात् उत्पाद(उत्पन्न)विनाशप्रत्यक्षस्य प्रत्यभिज्ञातोऽधिकत्वाभावात् विनाशित्वं न साधयतीत्यर्थः । दाह्यविनाशानन्तरमिति–दाह्यभूतदशाविनाशानन्तरं वहेर्दीपस्य विनाश इत्यर्थः । तथाचेदृशविशेषदर्शनबलाज्जात्यादिविषयतयाऽन्यथासिद्धा प्रत्यभिज्ञा न विरोधिनीत्यर्थः । दीपदशादीत्यादिपदेन तैलादिसंग्रहः । अनुमानतोअप विनाशस्सिध्यतीत्याहप्रयोगश्चेति । दिङ्मोहादिवत् प्रत्यभिज्ञा न बाधिकेति भावः । अन्त्यस्नेहादिनाशस्य सपक्षत्वात्तद्वारणाय—प्राच्य इति पक्षविशेषणम् । स्वानन्तरभावीति सिद्धसाधनवारणाय । स्वानन्तरभावित्वं च स्वोत्पत्त्यव्यवहितक्षणभावित्वम् । स्वजनकेति वनिसंयोग(दीपान्तर) नाशमादायार्थान्तरवारणाय दीपारम्भकेति । अदृष्टादिनाशे व्यभिचारवारणाय स्नेहेति । आदिशब्देन वर्तिनाशसंग्रहः । अन्त्यवदिति—अन्त्यस्नेहादिनाशवदित्यर्थः । दीप (भेदे नाशे) प्रत्यक्ष
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy