SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ सरः]सजातीयधर्मधर्मिभावनिदर्शनभाष्यस्यतत्प्रातिकूल्यम् , तात्पर्यस्याभ्यूह्यताच 569 सर्वार्थसिद्धिः वाक्ये च नोभयत्यागः। सहजक्षणिकपुञ्जद्वयपक्षस्य क्षणभङ्गनिरासेनैव निरस्तत्वाच्च । अतोऽन्यतरवाक्यस्य अन्यपरत्वे प्राप्ते प्रमाणतर्कानुगुणं परमार्थतात्पर्य प्रज्ञाशालिभिश्छात्रैः प्रतिबोद्धव्यामिति ॥ ५७॥ प्रभाविषयग्रन्थद्वयगमनिका. - - ननु दीपादीनां स्थिरतया गृहीतानामपि क्षिप्रविनाशित्वमभ्युपगतम् ; तच्च अवयवविशरणपक्ष एवोपपद्यते। तथाऽऽहुः-- अवयवविशरणलिङ्गजबोधसहायेन चक्षुषा भेदम् । ज्वालेषु निर्णयामः . . . . . . ॥ आनन्ददायिनी घटादिन्यायेन तथा निर्वाहस्य मुख्यत्वात्तथोक्तमिति भावः। अत इतिविशीर्णपक्षस्य प्रत्यक्षादिप्रमाणविरोधात् बहुकल्पनागौरवप्रसङ्गात् क्षण(णिकवाद)भङ्गनिरासेन कंचित्कालमवस्थाने विरोधाभावेन बहुलीभावसम्भवात् दीपादीनामन्यस्य विनाशेऽपि तदवयवसम्बन्धेनौष्ण्यवदातपत्रादिवारितस्थलेऽप्यातपादिप्रभावयवसत्त्वस्य निरन्वयविनाशनिराकरणेनाविरोधाच्च धर्मिणः स्थिरत्वे प्रभाया अपि स्थिरत्व तन्निरोधे च हासः तदभावे विकासः अस्थिरदीपादौ च तत्समानकालीनप्रभागतिमत्त्वाङ्गीकाराच्च वारणादिकं च युज्यते इति पूर्वोक्त एव संमत इति तदनुरोधेन ग्रन्थो योजित इति भावः ।। ५७ ॥ प्रभाविषयग्रन्थद्वयगमनिका .. आक्षेपसङ्गतिमाह-नन्विति । अवयवेति-विशेषदर्शनसहित
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy