SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ 568 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य तत्वमुक्ताकलापः प्रभायाम् । वस्तुन्यस्ते विक(ल्पे)ल्पैः स्फुटविघटनयोर्वक्तुराप्तस्य वाचोस्तात्पर्य तर्कमानानुगुण मधिगुणैश्चिन्त्यमन्ते वसद्भिः ॥५७॥ सर्वार्थसिद्धिः प्रभातद्वतोराश्रयाश्रयित्वादिभाषणं तु परसंमत्यैव तन्मतनिदर्शनम् । प्रभा हि प्रदीपादिना सह जनिध्वंसिनीति केचित् । तथा हि-सांख्या इन्द्रियवृत्तिनिदर्शनतया आहुः___दीपप्रभा यथा तस्मिन् विनश्यति विनश्यति । तथा बहिर्गताऽप्येषा मूलच्छेदाद्विनश्यति ॥ इति। ननु विरुद्धभाषणादुभयं त्यक्ता सौगत(गती गतिरिह संग्राह्येत्यत्राह-वस्तुनीति । न तावदिह सिद्धे वस्तुनि विकल्पः । न च वाक्ययोरैकार्थ्य क्लिष्टगत्या कल्प्यं ; विरोधस्फौव्यात् । आप्त आनन्ददायिनी दीपनिदर्शनं भाष्यस्थंवि रुद्धयेतेत्यत्राह--प्रभातद्वतोरिति । यद्यप्ययमपि अन्थो भाष्यस्थः सप्रभोत्पत्तिग्रन्थतुल्य इति न विरोधोऽत्र परिहार्यः; परपक्षानुसारेण परिहारस्तु सप्रभग्रन्थेऽपि समः ; तथाऽपि अयं ग्रन्थो निदर्शनार्थो यथावत्स्वीकार्योऽन्यथा सजातीयधर्मधर्मिभावो न सिद्धयेदिति यथाश्रुतार्थमभिप्रेत्य समाहितमिति ध्येयम् । केचिदित्युक्तानां ग्रन्थमुदाहरति--- दीपप्रभेति । सौगतगतिः-क्षणिकपुञ्जद्वयपक्षः । यद्यप्यस्मिन् (सहजनिप्रध्वंस)पक्षे बहुलीभावपरा(वप्रतिनिविष्ट)वृत्त्यादिगतिमत्त्वं न सम्भवति; तस्य कथंचिन्निर्वाहे सप्रभपक्ष एव श्रेयान्
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy