________________
सरः
प्राणस्यवायुक्रियाविशेषत्वतत्वान्तरत्वयोर्निरासः
555
तत्वमुक्ताकलापः नक्रिया द्रव्यतोक्तेः तेजोवद्वान तत्वान्तरमगणनतो
सर्वार्थसिद्धिः प्रयोजनमान्द्यात् । अस्तु तर्हि वायोः क्रियाविशेषः प्राणः? स्तिमितवायौ प्राणशब्दप्रयोगाभावात् उच्छासादौ प्रयोगाचेत्यत्राह --न क्रियेति । हेतुमाह-द्रव्यतोक्तरिति । वायुर्द्रव्यमि(ति) त्येतावत्सिद्धम् । प्राणे च तदुक्तिस्सार्वत्रिकी । प्राणस्स्पन्दत इति च पृथग्व्यपदिशन्ति । उक्तश्च सह पाठो न तक्रियायाः; अग्रयप्रायनयविरोधात् । न च मनः प्रभृतीनां क्रिया तैस्सहात्र पठ्यते! इति भावः । यद्यसौ वायुविकारविशेषः; वह्निरिव तत्वान्तरं स्यादित्यत्राह--तेजोवदिति । यदि तत्वपतौ निविष्टः प्राणः; भूतान्तरवत् पृथक्संख्यायेत; न ह्येवमसौ इत्याह-अगणनत इति । तत्वपरिगणनं च पूर्वपूर्वनियतखभावपरित्यागेन विकारान्तरसृष्टौ न तु विकारमात्रे;
. आनन्ददायिनी प्राणे वायुशब्दप्रयोगानुपपत्तिः ; उपचारादुपपत्तेरिति शङ्कते-अस्तु तीति । द्रव्यतोक्तिः-द्रव्यवाचकवायुशब्देनोक्तिरित्यर्थः । क्रियात्वे अनन्यथासिद्धहेत्वभावेन वायुव्यपदेशस्य औपचारिकत्वाभावादिति भावः । द्रव्यत्वे सौत्रमाह--प्राणस्स्पन्दत इति । सौत्रोपदेशशब्दस्वारस्याद्विवक्षितहेतुमाह-उक्तश्चेति । यद्यसाविति-वायुविकारत्वाविशेषादिति भावः । ननु तस्य वायुविकारत्वे 'चतुर्विंशा प्रकृतिः पञ्चविंश आत्मा' इत्यादिपरिगणनमयुक्तं अधिकस्य सत्त्वादित्यत्राह-तत्वपरिगणनं चेति ।
SARVARTHA.
35